________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ न्तराभिधानमवस्त्विति प्रतिपादिते एवम्भूतनय आह-निमित्तं क्रियां कृत्वा शब्दाः प्रवर्तन्ते, नहि यदृच्छाशब्दोऽस्ति, अतो घटमान एव घटः, कुटंश्च कुटो भवति, पूर्दारणप्रवृत्त एव पुरन्दरः, यथा दण्डसम्बन्धानुभवनप्रवृत्तदासस्यैव दण्डित्वम्, अन्यथा व्यवहारलोपप्रसङ्गः । न चासौ तदर्थः, अनिमित्तत्वाद् यथा बहुत्वैकवचनम्, इति समुच्चये परिसमाप्तौ च ॥
मा०-अत्राह-किमेषां लक्षणमिति । अत्रोच्यते
टी०-अत्राहेत्यादि । अस्मिन्नवसरे नैगमादीनामध्यवसायविशेषाणां लक्षणजिज्ञासया विविक्तचिह्नपरिज्ञानाभिप्रायेणाह-किं लक्षणमेषामिति । अत्रोच्यते-लक्षणम्--
____ भा०-निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिनैगमलक्षणम् ज्ञानं च देशसमग्रग्राही नैगमः॥
टी०-निगमेष्वित्यादि। न चैतानि सूत्रांण्यवृत्तित्वात् , कैश्चित् पुनीन्त्या सूत्राणीति प्रतिपन्नम्, तत्र नैगम इत्यस्यावयवप्रविभागेन व्याख्यानं-निश्चयेन गम्यन्ते-उच्चार्यन्ते-प्रयुज्यन्ते येषु शब्दास्ते निगमा--जनपदाः तेषु निगमेषु-जनपदेषु ये इत्यक्षरात्मकानां ध्वनीनां सामान्यनिर्देशः अभिहिता-उच्चारिताः शब्दा-घटादयस्तेषामर्थो-जलधारणाहरणादिसमर्थः,शब्दार्थपरिज्ञानं चेति शब्दस्य घटादिरर्थोऽभिधेयस्तत्परिज्ञानम्-अवबोधः, घट इत्यनेनायमर्थ उच्यते अस्य चार्थस्य अयं वाचक इति, यदेवंविधमध्यवसायान्तरं स नैगमः, स सामान्य विशेषावलम्बीत्येतद् दर्शयति-देशसमग्रमाहीति । यदा हि स्वरूपतो घटमयं निरूपयति तदा सामान्यघटं सर्वसमानव्यक्त्याश्रितं घट इत्यभिधानप्रत्ययहेतुमाश्रयत्यतः समग्रग्राहीति । तथा विशेषमपि सौवर्णो मृण्मयो राजतः श्वेत इत्यादिकं विशेष निरूपयत्यतो देशग्राहीति भण्यते नैगमनयः॥
सम्प्रति सङ्ग्रहस्य लक्षणमाहसङ्ग्रहलक्षणम् भा०-अर्थानां सर्वैकदेशग्रहणं सङ्ग्रहः ॥
टी०-अर्थानामित्यादि। अर्थानां-घटादीनां सर्वैकदेशग्रहणमिति सर्वसामान्य एकदेशो-विशेषः तयोः सर्वैकदेशयोः--सामान्यविशेषात्मकयोरेकीभावेन ग्रहणम-आश्रयणमेवंविधोऽध्यवसायः सङ्ग्रहो भण्यते । एकीभावेन ग्रहणमेवं द्रष्टव्यम्यौ हि सामान्यविशेषौ नैगमाभिमतौ तौ सम्पिण्डय सङ्ग्रहनयः सामान्यमेव केवलं स्थापयति सत्ताखभावम्, यतः सत्तातो न व्यतिरिच्यते विशेषः ॥
व्यवहारलक्षणाभिधित्सयाऽऽहव्यवहारलक्षणम् भा०-लौकिकसम उपचारमायो विस्तृतार्थो व्यवहारः ॥
टी.. लौकिकेत्यादि । लोके -मनुष्यादिस्वभावे विदिताः लौकिकाः-पुरुषास्तै १'सूक्ष्माण्य ' इति ख-पाठः । २किचित् ' इति ख-ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org