________________
१२०
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ यिनः तद्वाच्येऽर्थे भावरूपे प्रवृत्तोऽध्यवसायः साम्प्रताख्यामासादयति । यतो भाव एव शब्दाभिधेयो भवति, तेनाशेषाभिलषितकार्यकरणादिति ॥
अधुना समभिरूढलक्षणं दर्शयन्नाहसमभिरूढलक्षणम् भा०-सत्स्वर्थेष्वसङ्क्रमः समभिरूढः ॥
टी-सत्स्वर्थेषु इत्यादि। सत्सु-विद्यमानेषु वर्तमानपर्यायापन्नेष्वित्यर्थः, अर्थेपुघटादिषु असक्रम इत्यन्यत्रागमनं शब्दस्य यत् सोऽसङ्कमः। यथा घट इत्यस्य शब्दस्य विद्यमानं घटं चेष्टात्मकं विरहय्य नान्यत्र कुटाद्यर्थे घटाभिधानसामर्थ्यमस्ति, अनभिधेयत्वात् , यदि चास्य घटशब्दस्य कुटादिरर्थोऽभिधेयो भवेदेवं सति यथोक्ताः सर्वसङ्करत्वादयो दोषा उपजायेरन् नित्यतो न शब्दान्तराभिधेयोऽर्थोऽन्यस्य शब्दस्याभिधेयो भवति. एवमसमगवेषणपरोऽध्यवसायः समभिरूढः॥
एवम्भूतनयलक्षणोन्निनीषया आहएवंभूतलक्षणम् भा०-व्यञ्जनार्थयोरेवम्भूत इति ॥
टी-व्यञ्जनेत्यादि । व्यञ्जनं-शब्दस्तस्यार्थः-अभिधेयो वाच्यम् तयोव्यञ्जनार्थयोरेवं संघटनं करोति घट इति यदिदमभिधानं तच्चेष्टाप्रवृत्तस्यैव जलधारणाहरणसमर्थस्य वाचकं, चेष्टां च जलाद्यानयनरूपां कुर्वाणो घटो मतः, न पुनः क्रियातो निवृत्तः, इत्थं यथार्थतां प्रतिपद्यमानोऽध्यवसाय एवम्भूतोऽभिधीयते इति ॥ भा०-अत्राह-उद्दिष्टा भवता नैगमादयो नयाः। तत्रं नया इति कः
. पदार्थ इति ?। अत्रोच्यते-नयाः प्रापकाः कारकाः साधका नयस्य शब्दार्थः निर्वतका निर्भासका उपलम्भका व्यञ्जका इत्यनान्तरम् ॥
टी०-अत्रावकाशे चोदकः प्रश्नयति-उद्दिष्टाः-अभिहिताः लक्षणतस्त्वया-नैगमादयः पञ्च । तत्र नैगमादिसूत्रे, नया इति यदभिधानं तस्यानेककारकसन्निधाने सति कः प्रत्ययार्थो ग्राह्य इति संशयानः पृच्छति-तन्नया इति कः पदार्थः ? । तदित्यनेन बहुवचनान्तमभिधानं नया इत्येतन्निर्दिशति, नया इति तु इतिशब्दः नया इत्यस्य पदार्थविपर्यासंकृत, नया इत्यस्य शब्दस्य कः पदार्थः॥ ननु च कोऽर्थ इयता सिद्धः? तत्र पदार्थ इति पदग्रहणमतिरिच्यते ? । उच्यते-शब्दस्य हि सिद्धोऽर्थों वाच्यो गम्यश्च, यथा गुड इत्युक्ते द्रव्यं वाच्यम् , माधुर्योदयस्तु गम्याः, एवमिहापि वाच्योऽर्थो यः कश्चित् कादिरूपः शेषस्तु गम्य इति, तत्रेह वाच्यमर्थ पदग्रहणेन प्रश्नयति, पदस्यार्थो वाच्यः क इति, न तु गम्यमानम् , सरिराह-अत्रोच्यते-नयाः प्रापका इत्यादिना, कर्थः प्रदर्श्यते-नयन्त इति नयाः, सामान्यादिरूपेणार्थ प्रकाशयन्तीत्यर्थः। प्रापका इत्यनेन नयतेरन्तीतण्यर्थता ख्यायते, प्रापयन्ति आत्मनि तं तमर्थ स्वाभिमताभिरुपपत्तिभिरिति । कुर्वन्तीत्यादिभिस्तु
१'वाच्यः' इति ख-पाठः। २ 'तत्रया' इति -पाठः, स एव च टीकाकारसम्मतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org