SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १०६ तार्थाधिगमसूत्रम्: [ अध्यायः १ धर्मादीनि चत्वारि । किं सर्व पर्यायैः ? नेत्याह- तान्यपि न सर्वैरित्यादि । तान्यपि-रूपद्रव्याणि न सर्वैः अतीतानागतवर्तमानैरुत्पादव्ययधौव्यादिभिरनन्तैः पर्यायैरिति ॥२८॥ मनःपर्यायज्ञानंस्याधुना विषयनिबन्धनमाचिख्यासुराह - सूत्रम् - तदनन्तभागे मनःपर्यायस्य ॥ १-२९ ॥ भा०- यानि रूपाणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तभागे मनःपर्यायस्य विषयनिबन्धो भवति । अवधिज्ञानविषयस्यानन्तमनः पर्यायस्य विषयः भागं मनः पर्यायज्ञानी जानीते, रूपिद्रव्याणि मनोरहस्यविचारगतानि च मानुषक्षेत्र पर्यापन्नानि विशुद्धतराणि चेति ॥ २९ ॥ 1 टी० - तदनन्तभागे मनःपर्यायस्य । तेषामवधिज्ञानविषयीकृतरूपिद्रव्याणामनन्तभागस्तदनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिबन्धः । एतद् विवृणोति - यानि शुक्लादिगुणोपेतानि रूपाणि द्रव्याणि जानात्यवधिज्ञानी तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनः पर्यायस्य विषयनिबन्धो दृश्यः । तदित्यनेन अवधिज्ञानविषयोऽभिसंबध्यते । तस्यावधिज्ञानविषयस्य सर्वरूपिद्रव्यात्मकस्य योऽनन्त भागः एकस्तं मनः पर्यायज्ञानी जानीते । एतदाह-अवधिज्ञानविषयेत्यादिना । तान्यपि चावधिविषयानन्तभागवतनि रूपीण्यवगच्छति - रूपरसाद्युपेतानि एवंगुणसम्प्राप्तात्मकानि द्रव्याणि तान्यपि न कुडयाद्याकारव्यवस्थितानि जानाति, किन्तु मनोरहस्यविचारतानि मनः - अनिन्द्रियं प्रतिविशिष्टपुद्गलप्रचितं चेतस्तदेव च रहस्यम् - अप्रकाशस्वरूपं अन्तर्वर्तमानं मनोरहस्ये विचारो - विचारणा अन्वेषणा, कथमयं पदार्थोऽवस्थित इत्येवंरूपा, तत्र मनोरहस्य विचारणायां गतानि - प्रविष्टानि चिन्त्यमानानि जीवेनेतियावत्, तान्यपि न सर्वलोकवर्तीनि, किन्तु मनुष्यक्षेत्रम् आमानुषोत्तरात् तस्मिन् मनुष्यक्षेत्रे पर्यापत्नानि व्यवस्थितानीतियावत्, अवधिज्ञानिनश्च सकाशाद् विशुद्धतराणि बहुतरपर्यायाणि जानीत इतियावत् ॥ २९ ॥ , सम्प्रति केवलज्ञानस्य विषयमाचष्टे - सूत्रम् - सर्वद्रव्यपर्यायेषु केवलस्य ॥ १-३० ॥ केवलस्य विषयः भा० – सर्वद्रव्येषु सर्व पर्यायेषु च केवलज्ञानस्य विषयनिबन्धो भवति । तद्धि सर्वभावग्राहकं सम्भिन्नलोकालोकविषयम् । नातः परं ज्ञानमस्ति । न च कंवलज्ञानविषयात् परं किञ्चिदन्यज्ज्ञेयमस्ति ॥ टी० -- सर्वद्रव्येत्यादि । सर्वद्रव्येषु धर्मादिषु सर्वपर्यायेषु उत्पादादिषु, धर्मादीनां च त्रयाणां परत उत्पादविगमौ पुद्गलानां जीवानां च स्वतः परतच, १ पर्यायस्याधुना' इति ग-पाठः । २ 'मनुष्य ०' इति घ-टी-पाठः । , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy