________________
सूत्रे २७-२८] स्वोपज्ञभाष्य-टीकालङ्कृतम् मोहः-मोहनीय दर्शनमोहादिभेदमष्टाविंशतिविधं तस्य क्षयो-नाशस्तस्मात् मोहक्षयादात्यन्तिकात ज्ञानं-मत्यादि, दर्शनं-चक्षुर्दर्शनादि, तयोनिदर्शनयोरावरणीयं-आच्छादकं, अन्तरायं-दानलब्ध्यादिविघाति, अत एषां च ज्ञानदर्शनावरणीयान्तरायाणां क्षयात्शाटादात्यन्तिकात् केवलज्ञानं प्रादुरस्ति सकलद्रव्यभेदसंग्राहीति ॥२६॥
एवं मतिज्ञानादीनां पञ्चानामपि ज्ञानानां स्वरूपेऽवधृते तस्य मत्यादेर्यो विषयस्तमजानन् पृच्छति-एषां पूर्वोदितानां मतिज्ञानादीनां को विषयनिबन्धः कस्य ज्ञानस्येति । उच्यते-- सूत्रम्-मतिश्रुतयोनिबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥ १-२७॥
भा०–मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्धो भवति सर्वद्रव्येष्वसर्वपर्यायेषु । मतिश्रुतयोर्निबन्धः ताभ्यां हि सर्वाणि द्रव्याणि जानीते, न तु सर्वैः पर्यायैः ॥२७॥ ____टी-मतिश्रुतयोनिबन्ध इत्यादि । प्रकृतेन ज्ञानेन मतिश्रुते विशेषयन्नेवमुक्तवान्मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्ध इति । विषयव्यापारो-विषयगोचरो भवतीति, सर्वद्रव्येषु सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि तेषु धर्माधर्माकारापुद्गलजीवास्तिकायाख्येषु । असर्वपर्यायेष्विति सर्वे निरवशेषा उत्पादादयः पर्याया येषां तानि सर्वपर्यायाणि, न सर्वपर्यायाण्यसर्वपर्यायाणि तेषु । एतदेव भावयति-ताभ्यां हीत्यादि, हि-यस्मात् ताभ्यांमतिश्रुताभ्यां सर्वाणि द्रव्याणि-धमोदीनि जानाति, न तु तेषां सवोन् पयोयानुत्पादादीनिति । कथं पुनस्ताभ्यां सर्वद्रव्यविषयोऽवबोधः ? । मतिज्ञानी तावत् श्रुतज्ञानेनोपलब्धेष्वर्थेषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यो द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि, न तु सर्वान् पर्यायान् , अल्पकालत्वान्मनसश्चाशक्तेरिति, तथा श्रुतग्रन्थानुसारेण सर्वाणि धर्मादीनि जानाति, न तु तेषां सर्वपर्यायानिति ॥ २७ ॥ सम्प्रत्यवधिज्ञानस्य विषयनिवन्धनं कथयति
सूत्रम्-रूपिष्ववधेः ॥ १-२८ ॥ भा०-रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिबन्धो भवति, असर्वपर्यायेषु । ... सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते,
यो तान्यपि न सर्वैः पर्यायैरिति ॥ २८॥ टी-रूपिष्ववधेरिति । रूपिष्वेव-पुद्गलद्रव्येष्वेव अवधेः अतीन्द्रियस्य विषयनिबन्धो भवति सर्वेषु असर्वपर्यायेषु । किं योऽपि परमावधिरत्यन्तज्ञानविशुद्धस्तेनापि रूपीण्येव, नारूपीणि जानातीत्यारेकित आह-सुविशुद्धनापि--परमप्रकर्षप्राप्तेनापि, यो ह्यलोके लोकप्रमाणान्यसंख्येयानि खण्डानि पश्यति तेनाप्यवधिना पुद्गलद्रव्याण्येवावसीयन्ते, न १'अत्यन्तविशुद्ध' इति ग-पाठः ।
अवधेर्विषय
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org