________________
१०४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ टी-स्वामिकृत इत्यादि । अवधिज्ञानं संयतस्य-साधोर्विरतस्येत्यर्थः। असंयतस्य-अविरतस्य, वाशब्दात् संयतासंयतस्य वा, सर्वगतिषु नारकादिकासु चतसृष्वपि भवेत् , यतो नारकादीनां सर्वेषामवधिज्ञानमुत्पद्यते, मनःपर्यायज्ञानं पुनमनुष्य. संयतस्यैव भवति, मनुष्यग्रहणात् नारकादिन्धुदासः, संयतग्रहणात् मिथ्यादृष्टयादीनां प्रमत्तान्तानां षण्णां व्युदासः, एक्कारेण नियमयति-मनुष्यसंयतस्यैव फलं नियमस्य दर्शयति नान्यस्येति, देवादे.तदुत्पद्यत इत्यर्थः ॥
__ भा०-विषयकृतश्चानयोः प्रतिविशेषः । रूपिद्रव्येष्वसर्वपर्यायेष्ववधेविषयनिबन्धो भवति । तदनन्तभागे मनःपर्यायस्यति ॥
टी०-विषयकृत इत्यादि। रूपिषु परमाणुद्रव्येषु, असर्वपर्यायेष्विति । सर्वेसम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपयोयाणि न सर्वपयोयाण्यसर्वपयोयाणि तेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति न तु तेषां सर्वान् पर्यायानिति, एकैकस्य तु परमाणोः कदाचिदसङ्ख्येयान् पर्यायान् जानाति कदाचित् सङ्ख्येयान् , जघन्येन चतुरो रूपरसगन्धस्पर्शानिति, न पुनरेकैकस्य परमाणोरनन्तान ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि च सर्वानेव जानीयात् केवल्येवासौ स्यात् ॥ “जे एगं जाणति से सव्वं जाणति" इति [ आचाराङ्गनामकात (सू० १२२)] आगमात् ।। अतोऽसर्वपर्यायेषु अवधेः-अवधिज्ञानस्य विषयनिबन्धः-विषयगोचर इति । मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयः, यतस्तेषामवधिज्ञानानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिवन्धः । तस्मादतीन्द्रियत्वे तुल्येऽपि विशुद्धथादेर्भेदोऽवधिमनःपर्याययोरिति ॥
भा०---अत्राह-उक्तं मनःपर्यायज्ञानम् । अथ केवलज्ञानं किमिति । अत्रो. केवलानभिधान- च्यते-केवलज्ञानं दशमेऽध्याये वक्ष्यते-मोहक्षयात् ज्ञानदर्शनाकारणम् वरणान्तरायक्षयाच्च केवलमिति (१०-१)॥२६॥
अत्राह-एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति । अत्रोच्यते
टी०-अनावकाशे ब्रवीति-प्रतिपादितं मनःपर्यायज्ञानं, तदनन्तरं केवलज्ञानमुद्दिष्टं, तत् किंस्वरूपमिति प्रश्नयति केवलज्ञानं किंस्वरूपमिति । उच्यते-क्रमागतमपीह न भण्यते, यस्मात् केवलज्ञानस्योत्पत्तिः ज्ञानावरणीयादीनां घातिकर्मणामात्यन्तिकक्षयात् , स चात्यन्तिकक्षयः संवरेण प्राप्यते, संवरश्च नवमेऽध्याये वक्ष्यते, तत्समनन्तरं केवलज्ञानं दशमेऽध्यायेऽभिधास्यते, दशमाध्यायादिसूत्रं च तस्य प्रदेश पठति-मोहक्षयादित्यादि । मोहनं
१'भवति' इति ग-टी-पाठः। २'सूक्ष्मद्रव्याणि' इति ख-पाठः । ३ य एकं जानाति स सर्व जानाति । ४'. मवधिज्ञानज्ञाताना' इति प्रतिभाति । ५' प्रदर्शकं' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org