________________
सूत्र २६ ]
स्वोपज्ञभाष्य - टीकालङ्कृतम्
१०३
एभ्यो हेतुभ्योऽवधिमनःपर्यायज्ञानयोर्विशेषोऽवगन्तव्यः, पञ्चम्यर्थं च कृतशब्देनाचष्टे, विशुद्धया कृतो विशुद्धिकृतः क्षेत्रेण कृतः स्वामिना कृतः विषयेण कृतः विषयकृत इति । अनयोरिति अवधिमनः पर्यायज्ञानयोः प्रतिविशेषो-भेदोऽवधिमनः पर्यायज्ञानयोरिति, तद्यथा - एते यथा घटन्ते तथा कथ्यन्ते —
भा० - अवधिज्ञानात् मनः पर्यायज्ञानं विशुद्धतरम् । यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते । किंचान्यत् ।
टी० - अवधिज्ञानादुक्तलक्षणात् मनः : पर्यायज्ञानं विशुद्धतरम्, कथं ? विशुतरतां स्वयमेव भाष्यकृदाह - यावन्ति - यत्परिमाणानि नियमादनन्तानि, हिरेव इत्यस्यार्थे, यावन्त्येव, रूपमेपामस्ति रूपीणि, प्रदर्शनं चैतद्रपरसगन्धस्पर्शशब्दवन्ति, द्रव्याणि गुणसङ्घातात्मकानि अवधिज्ञानी जानीते, पश्यति चेति दृश्यम् तेषामवधिज्ञानेनोपलब्धानां रूपिद्रव्याणां यावन्ति मनःपर्यायज्ञानिनो विषय भूयमास्कन्दन्ति तान्यसौ मनः नः पर्यायज्ञानी विशुद्धतराणि - बहुतरपर्यायाणि जानीते इत्यर्थः । तान्यपि च मनोगतानीति --मनोव्यापारभाञ्जीत्यर्थः, असञ्चिन्त्यमानानि तु नैव जानीते साक्षात् । किञ्चान्यदिति, अयं चारो भेदहेतुरिति ॥
भा० - क्षेत्रकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानमङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं भवत्या सर्वलोकात्, मनः पर्यायज्ञानं तु मानुषक्षेत्र एव भवति, नान्यक्षेत्र इति ॥ किंचान्यत् ।
टी. - क्षेत्र कृतश्चानयोरवधिमनः पर्याययोः प्रतिविशेषो - भेदो दृश्यः, एतद् भावयति-अवधिज्ञानमङ्गुलेत्यादि । अङ्गुलस्यासङ्ख्येयानि खण्डानि कृतानि, तत्रैकस्मिन्नसङ्ख्येयभागमात्रे क्षेत्रे यावन्ति रूपिद्रव्याणि समवगाढानि सर्वस्तोकानि यः पश्यति, ततः स एव वर्धमानेन तेन बहूनि बहुतराणि च द्रव्याण्यवगच्छति यावत् सर्वलोकावस्थितानि रूपिद्रव्याणि पश्यति, शुभाध्यवसायविशेषादिति, एतदाह - अङ्गलस्या सख्येयभागादिषूत्पन्नं भवत्यासर्वलोकादिति । मनः पर्यायज्ञानस्य तु नैतावत् क्षेत्रमस्ति, यतो मन:पर्यायज्ञानं मानुषेत्यादि, मानुषक्षेत्रे - अर्धतृतीयेषु द्वीपसमुद्रेष्वित्यर्थः, नान्यक्षेत्रे इति न वा शर्कराप्रभादिनरकेष्विति ॥
भा० – स्वामिकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानं संयतस्य, असंयतस्य, [संयतासंयतस्य चें] (वा) सर्वगतिषु भवति, मनः पर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति, नान्यस्य ॥ किंचान्यत् ।
१ 'रूपाणि' इति घ- पाठः । २ 'मनोरहस्यगतानीव' इत्यपि ग-टी-पाठः । ३ 'मनुष्यक्षेत्रे' इति क-ख - पाठः । ४' वा ' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org