________________
१०२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ नयोः प्रतिविशेषः ?। क इत्यसम्भावने, नैव कश्चित् सम्भाव्यते, अनयोरिति ऋजुविपुलमत्योः प्रतिविशेषः-स्वगतो भेद इति, उच्यते गुरुणा
सूत्रम्-विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ १-२५ ॥ भा०-विशुद्धिकृतश्च अप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथाऋविपुलमत्यो- ऋजुमतिमनःपर्यायज्ञानाद् विपुलमतिमनःपर्यायज्ञानं विशुद्धविशेषः तरम्। किश्चान्यत् ।
टी०-विशुद्धयप्रतीत्यादि । विशुद्धेः कारणात् तयोः ऋजुविपुलमत्योर्विशेषः अप्रतिपाताच,विशुद्धया-बहुतरपर्यायज्ञानरूपया कृतो-जनितः विशुद्धिकृतः,चशब्दः समुच्चये, अप्रतिपातेन-अच्यवनरूपेण कृतः अप्रतिपातकृतश्चानयोः-ऋजुविपुलमत्योः प्रतिविशेषो-नानात्वं बोद्धव्यम् । तत्र विशुद्धिकृतं तावद् भेदं दर्शयति-ऋजुमतिमनःपर्यायज्ञानात् सामान्यग्राहिणः विपुलमतिमनःपर्यायज्ञानं नानाविधविशेषग्राहि विशुद्धतरमिति,यद्रव्यं यावन्निः पर्यायैरवच्छिनत्ति ऋजुमतिस्तदेव द्रव्यं बहुतरैः पर्यायैर्विपुलमतिरवगच्छति, यथा घटे चिन्तिते ऋजुमतिमनःपर्यायज्ञानेनैतावद् व्यज्ञायि-घटोऽनेन चिन्तितः, विपुलमतिमन:पर्यायज्ञानं पुनस्तमेव घटं पार्थिवत्वरक्तत्वप्रमाणादिभिर्बहुभिर्भेदैरवबुद्धयते, अतो विशुद्धतरमुच्यते । किश्चान्यदिति भेदस्य उपपत्त्यन्तरसम्भावनाद्वारेण प्रयुज्यते, इहान्योऽपि नानात्वकार्यस्ति हेतुरिति, तमाह
भा०-ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिमन:पर्यायज्ञानं तु न प्रतिपततीति ॥ २५॥
अत्राह-अथावधिमनःपयोंयज्ञानयोः कःप्रतिविशेष इति। अत्रोच्यते
टी-ऋजुमतिमनःपर्यायज्ञानं प्राप्तमप्यप्रमत्तसंयतेन प्रतिपतति-प्रच्यवते, अपिशब्दात् कदाचिन्न प्रतिपतत्यपि, भूयः-पुनः विपुलमतीत्यादि, यस्य पुनर्विपुलमतिमनःपर्यायज्ञानं समजनि तस्य नैव प्रतिपतत्या केवलप्राप्तेरिति ॥ २५ ॥ ___एवं भेदे ऋजुविपुलमत्योः प्रतिपादिते अवधेर्मनःपर्यायज्ञानस्य चातीन्द्रियत्वे समाने रूपिद्रव्यनिवन्धनत्वे च विशेषमपश्यन् ब्रूते-अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति । स चैवं पूर्वपक्षवादी चोदयति-कुतः प्रतिविशेष इति हेत्वभावं मन्यमानः, उत्तरपक्षवादी तु हेतून् विशुद्धयादीन् पश्यन्नेवमाह-अत्रोच्यतेसूत्रम्-विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः ॥ १-२६ ॥ अवधिमनःपर्या- भा०-विशुद्धिकृतः, क्षेत्रकृतः, स्वामिकृतः, विषयकृतश्चाययाविशेषः नयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः । तद्यथा
टी०-विशुद्धीत्यादि । विशुद्धिः-बहुतरपर्यायपरिज्ञानकारणत्वं, क्षेत्रं-आकाशं - श्यमानादृश्यमानरूप्यरूपिद्रव्याधारः, स्वामी-ज्ञानस्योत्पादयिता,विषयो ज्ञानगम्यः पदार्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org