________________
सूत्रं २४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-ऋजुविपुलेत्यादि । ऋजुश्च विपुला च ऋजुविपुले एते च मती ऋजुविपुलमती, ऋज्वी मतिर्विपुला च मतिरिति ॥ ननु च मतिरित्यनेन ज्ञानमभिधीयते, ज्ञानस्य च ऋजुत्वं विपुलत्वं चायुक्तं, 'निर्गुणा गुणा' (अ०५, मू०४० ) इति वक्ष्यमाणत्वात् , मूर्तेषु चैष व्यवहारः, ऋज्वी विपुला चाङ्गलिरिति, ज्ञाने त्वमूर्ते ऋजुत्वविपुलत्वकल्पना
_ न साधीयसीति । उच्यते-ऋजुता विपुलता वा ग्राह्यविषया समस्ति, ऋजुर्मा मत्यो स्वरूपम् ।
। तया ज्ञानस्योपदेशो भविष्यति, या मतिः सामान्यं गृह्णाति सा
ऋज्वीत्युपदिश्यते, या पुनर्विशेषग्राहिणी सा विपुलेत्युपदिश्यते, ऋजु सामान्यमेकरूपत्वात् , विशेषास्तु विविक्ता बहवः । यदि सामान्यग्राहिणी ऋजुमतिर्मनःपर्यायज्ञान प्राप्तं तर्हि मनःपर्यायदर्शनमपि, यस्मात् सामान्यग्राहि दर्शनमिष्यते, न चाराधितराद्धान्तैर्मनःपर्यायदर्शनमध्यगायि. आह-यद्यप्येवमुच्यते सामान्यग्राहिणी मजुमतिरिति तथाऽप्यसौ सामान्यभेदरूपमेव परिच्छिनत्ति, यतो बहन भेदान् न शक्नोति परिच्छेत्तुम, अतः सामान्यग्राहिणी, परमार्थतस्त्वसौ विशेषमेकं द्वौ बीन् वा गृह्णन्ती प्रवर्तते, अतः स्तोकाभिधायी सामान्यशब्दोऽत्र, या तु विशेषान् बहून् गृह्णाति सा विपुलमतिः । केचित् तु मन्यन्ते प्रज्ञापनायां मनःपर्यायज्ञाने दर्शनता पठ्यते, तत्सम्भवे सामान्यग्राहिणी घटितपदा, अतः ऋजुमतिर्विपुलमतिश्च । किम् ? मनःपयोयः, मन इति च मनोवगेणा जीवेन मन्यमाना द्रव्यविशेषा उच्यन्ते,तस्य मनसः पर्यायाः-परिणामविशेषाःमनःपर्यायाः,मनसि वा पर्यायाः, तेषु मनःपर्यायेषु यज्ज्ञानं तन्मनःपर्यायज्ञानमिति । इह साधोः सकलप्रमादरहितस्य मनःपर्यायज्ञानावरणीयकर्मक्षयोपशमात् प्रतिविशिष्टं ज्ञानमुदयते, येन ज्ञानेन मनःपर्याप्तिभाजां प्राणिनां पञ्चेन्द्रियाणां मनुष्यलोकवर्तिनां मनसः पयोयानालम्बते-जानाति मुख्यतः, ये तु चिन्त्यमानाः स्तम्भकुम्भादयस्ताननुमानेनावगच्छन्ति । कथम् ? उच्यते-अस्यैतानि मनोद्रव्याण्यनेनाकारेण परिणतानि लक्ष्यन्ते अतः स्तम्भादिश्चिन्तितः, तस्य परिणामस्य स्तम्भाद्यविनाभावात् , न पुनः साक्षाद् बहिर्द्रव्याणि जानीते इति, क्षयोपशमवैचित्र्यात् , कस्यचित् तदेवंविधं मनःपर्यायज्ञानं भवति येन सामान्य घटमात्रं चिन्तितमवगच्छति तच्च ऋजुमतिर्मनःपर्यायज्ञानम् । अपरस्य तु तदावरणीयकर्मक्षयोपशमोत्कर्षापेक्षयैवंविधं भवति तद् विपुलमतिर्मनःपर्यायज्ञानम् , उभयमपीन्द्रियानिन्द्रियनिरपेक्षम् , घटमात्रावच्छेदि प्रथमम् , द्वितीयं तु पर्यायशतैर्मृण्मयरक्तशुक्लादिप्रमाणादिभिर्विचिन्तितं घटमवबुद्धयते, अत एव क्षयोपशमद्वैविध्यात , प्रकृतेन च ज्ञानग्रहणेन मनःपर्यायं सम्बनिन् भाष्यकृदाहमनःपयोयज्ञानं द्विविधम् । मनःपयोयस्य तेषु वा ज्ञानं मनःपयोयज्ञानं, द्वे विधे यस्य तद् द्विविधं, ते द्वे विधे दर्शयति-ऋजुमतिर्मनःपर्यायज्ञानम् , ऋजुमतिरेव मनःपर्यायज्ञान, घटादिमात्रचिन्तितपरिज्ञानमिति, विपुलमतिरेव मनःपर्यायज्ञानं, प्रसङ्गतः पर्यायशतैः परिज्ञानमिति ॥ २४ ॥
एवं द्वैविध्ये दर्शिते चोदकोऽभिधत्ते-मनःपर्यायाणामुभयत्र दर्शनम् अतीन्द्रियत्वं चोभयोः ऋजुविपुलमत्योः समानम् , अतः किंकृतं नानात्वमिति प्रश्नयति-कोऽ
१'सामान्यं ' इति क-ख-ग-पाठः। २ 'शब्दार्थः' इति क-ख-ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org