________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १ टी-अनवस्थितमिति । नावतिष्ठते कचिदेकस्मिन् वस्तुनि शुभाशुभानेकसंयमस्थानलाभात्, यत आह-हीयते योजनं दृष्ट्वा तस्यैवार्धमवगच्छति तस्याप्यर्धमेवादि, वर्धते चार्धक्रोशं दृष्ट्वा क्रोशमवैत्यर्धयोजनं योजनमेवमादि, कदाचिदुभयीमवस्थामनुभवति वर्धते हीयते च, तस्यैव क्रोशस्यैकस्यां दिश्यपरकोशो वृद्धिः अन्यस्यां तस्य कोशस्याधं हीनमिति । अथवा प्रतिपतति चोत्पद्यते चेति कचित् कालान्तर उदितं पुनर्नश्यति पुनश्चोदेति, क्षयोपशमवैचित्र्यात्, पुनः पुनर्नाशोत्पादस्वभावमूर्मिवत् यथा महति सरसि स्वच्छवारिभारिणि पूर्णे प्रबलानिलवेगविक्षिप्यमाणजलेऽदभ्रोर्मयः समुपजाताः समासादितरोधसः शमं शनैः शनैर्भजन्ते, पुनश्चाभिघातविशेषात् प्रादुःष्यन्ति, अतो यथोर्मयोऽनवस्थिता एवमवधिज्ञानमपीति ॥
भा०–अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्याकेवलप्रा. सेरवतिष्ठते, आभवक्षयाद वा जात्यन्तरस्थायि भवति लिङ्गवत् ॥ २३॥
उक्तमवधिज्ञानम् । मनःपर्यायज्ञानं वक्ष्यामः ॥
टी०-अवस्थितमिति । अवतिष्ठते स्म अवस्थितं, यया मात्रयोत्पन्नं तां मात्रां न जहातीतियावत् , एतदाह-यावति क्षेत्र इत्यादि। यावति यत्परिमाणे क्षेत्रेऽङ्गुलासङ्ख्येयभागादावुत्पन्नमासर्वलोकात् तत इति तस्मात् क्षेत्रान्न प्रतिपतति-न नश्यति, सर्वकालमास्ते, कुतोऽवधेर्यावदास्त इति? उच्यते-आकेवलप्राप्तेः, आमर्यादायाम् । केवलज्ञानं तस्य प्राप्तिः-लाभः आकेवलप्राप्तेर्यावत् केवलज्ञानं न प्राप्नोति, प्राप्ते तु केवले छानस्थिकं ज्ञानं व्यावतते। अथवा मरणात् तदाह-आभवक्षयात् , भवो-मनुष्यादिजन्म यावत् तत्र जीवति तावद भवति ततः परं न, तस्माद् भवक्षयात्, ततः परं नश्यति । अथवा जात्यन्तरमपि गच्छन्तं जीवं न मुञ्चति तदवधिज्ञानं, तेनान्वित एव गच्छति,लिङ्गवजात्यन्तरं (जात्यन्त)रावस्थायि वा भवतीत्येतदाह-जातेरन्या जातिः जात्यन्तरं तत्रावतिष्ठति तच्छीलं च, कथमिव तदादाय गच्छति ? आह-लिङ्गवत् पुरुषवेदादि लिङ्गं त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् , यथा इह जन्मन्युपादाय पुरुषवेदं जन्तुजोत्यन्तरमाधावत्येवमवधिमपि ॥ ॥१-२३ ॥
प्रस्तुतवस्तुपरिसमाप्ति सूचयत्युक्तमवधिज्ञानमित्यनेन उक्तं लक्षणतो विधानतश्च अवधिज्ञानं न पुनर्वाच्यमिति, तदनन्तरानुसारि मनःपर्यायज्ञानं वक्ष्यामः
सूत्रम्-ऋजुविपुलमती मनःपर्यायः ॥ १-२४ ॥
भा०-मनःपर्यायज्ञानं विविधम्-ऋजुमतिमनःपर्यायज्ञा" नम्, विपुलमतिमनःपर्यायज्ञानं च ॥ २४ ॥ अत्राह-कोऽनयोः प्रतिविशेष इति ? । अत्रोच्यते१ ‘रोधस्सु ' इति ख-पाठः । २ चिह्नितोऽयं स्व-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org