________________
सूत्रं २३ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् वीषु रत्नप्रभादिकासु, विमानेषु ज्योतिर्विमानादिषु, तिर्यग् द्वीपसमुद्रेषु, ऊर्ध्व विमानेषु, अधः पृथिवीषु यद्वधिज्ञानमुत्पन्नं भवति ततः क्रमशः परिसंक्षिप्यमाणं-हीयमानं प्रतिपतति । यस्माद् यद्वीपानपश्यत् तत् तेषामेकं क्रोशं पुनर्न प्रेक्षते शेषं पश्यति, पुनरयोजनं न पश्यत्येवं हीयमानं तावद्धीयते यावदगुलासङ्ख्येयभागः शेषः, एतदाह-आ अङ्गुलस्यासंख्येयभागात् अङ्गुलपरिमाणस्य क्षेत्रस्य असंख्येयानि खण्डानि कृतस्य एकस्मिन् असंख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि पश्यतीत्यर्थः । ततः कदाचिदवतिष्ठते कदाचित् प्रतिपतत्येव, तान्यपि न पश्यतीत्यर्थः। अङ्गुलशब्दश्च परिभाषितार्थो द्रष्टव्यः, अन्यथाऽमुलासंख्येयभागादिति भवितव्यम् , अन्येषां त्वेवंविधमेव भाष्यमिति । कथं हीयत इति चेद् ? दृष्टान्तमुपन्यस्यति-परिच्छिन्नेत्यादि । परितः-सर्वासु दिक्षु छिन्ना इन्धनंपलालादि तस्योपादान-प्रक्षेपः तस्य सन्ततिर्नैरन्तर्येण प्रक्षेपः, सा विशेष्यते परिच्छिन्नेति, नातः परमिन्धनप्रक्षेपः अतः परिच्छिन्ना इन्धनोपादानसन्ततिः, एतदुभयं पुनरपि शिखाया विशेषणम् , परिच्छिन्ना इन्धनोपादानसन्ततिर्यस्यामग्निशिखायां सा परिच्छिन्नेन्धनोपादानसन्ततिः, अग्नेः शिखा अग्निशिखा, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखा तया तुल्यमेतद्धीयमानमवधिज्ञानं, यथाऽपनीतेन्धनाऽग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपीति ॥
भा०-वर्धमानकं यदङ्गुलस्यासंख्येयभागादिषूत्पन्नं वर्धते आसर्वलोकातू। अधरोत्तरारणिनिर्मथनोसन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत् ॥
टी-वर्धमानक यद्गुलासङ्ख्येयभागादिषु । अगुलस्यासंख्येयभागमात्रे क्षेत्रे ततोऽङ्गुलमात्रे ततोऽरत्निमात्रे इत्यादिषूत्पन्नं तावद् वर्धते यावत् सर्वलोको धर्माधर्मद्रव्यद्वयपरिच्छिन्नो व्याप्तो भवति तदा आसर्वलोकात् , कथमिव वर्धते अत आह-अधरोत्तरेत्यादि । अधरः-अधोवर्ती उत्तरः-उपरिवर्ती तावेवारणी ताभ्यामधरोत्तरारणिभ्यां निर्मथनं-संघर्षणं तेन निष्पन्न-उद्भूतः, तदेवमुत्पन्नोऽवधिवृद्धिं गच्छति यथा तथाह-उपात्तेत्यादिना । उपात्तं प्रक्षिप्तं शुष्कमाई न भवति करीषादि तेनोपात्तेन शुष्केण उपचीयमानः वृद्धिं गच्छन्नित्यर्थः, आधीयमानः प्रक्षिप्यमाणोऽन्योऽपि पुनः पुनः इन्धनानां पलालादीनां राशिः-समूहो यत्रानौ सः अधरोत्तराराणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निः, तेन तुल्यमेतदिति, यथाऽग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद् वृद्धिमुपगच्छत्येवं परमशुभाध्यवसायलाभादसौ पूर्वोत्पन्नो वर्धत इत्यर्थः ॥
भा०-अनवस्थितं हीयते वर्धते वर्धते हीयते च । प्रतिपतति चोत्पद्यते चेति । पुनः पुनरूमिवत् ॥
१.तानि तानि' इति ग-टी-पाठः । २' निर्मथनोत्पन्नोपात्त.' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org