________________
सूत्र ३०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१०७ यथा शुक्लतया विगच्छन्नीलतयोपजायमानः पुद्गल इत्यवतिष्ठते, जीवोऽपि सुरतयोत्पद्यते मनुष्यतया विगच्छति जीवत्वेन च सदावस्थित इति, अतः सर्वेषु पर्यायेष्वेवमात्मकेषु केवलज्ञानस्य विषयनिबन्धो गोचरो भवति । कथं पुनः केवलस्य सर्वाणि द्रव्याणि सर्वे पर्यायाश्च गोचरीभवन्ति । उच्यते-तत् केवलज्ञानं यस्मात् सर्वेभावग्राहकं सर्वेषां भावानां ग्राहकं-द्रव्यक्षेत्रकालभावविशिष्टानां तत् परिच्छेदकम्-अवभासकम् , अत एव सम्भिन्नलोकालोकविषयं लोको-धर्माधर्मद्रव्यद्वयाविच्छिन्नमाकाशं, यत्र त्वाकाशे तौ धर्माधौं न स्तः सोऽलोकः, लोकचालोकश्च लोकालोको सम्भिन्नौ च तौ लोकालोको च सम्भिन्नलोकालोको विषयो-गोचरो यस्य तत् सम्भिन्नलोकालोकविषयम् । एतदुक्तं भवति–यदिह लोके अलोके वोऽस्ति किश्चिज्ज्ञेयं तद् यथा बहिः पश्यत्येवमन्तः, एवं सम्भिनलोकालोकविषयं, सम्मिन्नमिति सम्पूर्णम्, अथवा सवैः पर्यायरथवा यथास्मानं तथा परम् , अथवा स्वपर्यायैः परपर्यायैश्च । अथ किमेतस्माज्ज्ञानात् प्रकृष्टतरमन्यत् किश्चिज्ज्ञानमस्तीति । उच्यते-नातः परं ज्ञानमस्ति अस्मात-केवलात् परं-प्रधानतरं ज्ञानं-ज्ञेयपरिच्छेदि नास्ति किश्चित् । एतस्माद् यद्यपि ज्ञानं न प्रधानतरमस्ति विषयस्तर्हि अप्रकाशितोऽस्ति तेन केवलज्ञानेनेति, तन, यतः--न च केवलेत्यादि । केवलज्ञानस्य विषयः सर्वद्रव्याणि सर्वपर्यायाश्च, एतस्माद् विषयात् परमन्यत् किश्चिज्ज्ञेयं नास्ति यदप्रकाशितं केवलेनेति ॥ एवं विषयमाख्याय केवलस्य तस्यैव पर्यायकथनं करोति
भा०-केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं केवलस्वरूपम्
व सर्वभावज्ञापकं लोकालोकविषयमनन्तपयोंयमित्यर्थः ॥ ३०॥ अत्राह-एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्तीति ? । अत्रोच्यते
टी-केवलं परिपूर्ण भण्यते, सकलं द्रव्यभावजालं परिच्छिन्दन् परिपूर्णमिति, यथैकं जीवपदार्थ तथा परमपि परिच्छिन्दत् समग्रमिति व्यपदिश्यते, असाधारणं मत्यादिज्ञानैरतुल्यत्वात् , निर्गता आलोपेन्द्रियादिरूपा अपेक्षा यत्र तन्निरपेक्ष, ग्राह्यं मुक्त्वा नेन्द्रियादीन्यपेक्षत इतिवायत् , विशुद्धं अशेषज्ञानदर्शनावरणमलविलयनात् . सर्वभावज्ञापकमिति सर्वेषां जीवादीनां भावानां ज्ञापक-प्ररूपकम् ।। ननु च मृकं तत् केवलज्ञानं, तत् कथं प्ररूपकं भण्यते ? शब्दो हि ज्ञापको मतः, उच्यते-उपचारात् ज्ञापकं, यतः केवलज्ञानेन सर्वद्रव्यभावान् दृष्टान् शब्दः प्रकाशयति, ततः वेवलज्ञानमेव प्रकाशकं भण्यते । लोकालोको विषयोऽस्य तत् लोकालोकविषयम् । कथमिति चेत्, यतः अनन्ताः पर्यायाः-परिणामाः यस्य तत् अनन्तपर्यायं, ज्ञेयं वाऽनन्तपर्यायमितिकृत्वा तदप्यनन्तपर्यायमभिहितं, ज्ञेयानुरोधेन ।।३० ।।
१'चास्ति' इति क-पाठः । २'जातं' इति क-ख-पाठः । ३'प्ररूपक ज्ञापकं भण्यते' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org