________________
सूत्रं २०] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी–अङ्गप्रविष्टं द्वादशविधं भण्यते । तद्यथा, आचारो ज्ञानादिर्यत्र कथ्यते स
आचारः । सूत्रीकृता अज्ञानिकादयो यत्र वादिनस्तत् सूत्रकृतम् । अङ्गप्रविष्टानां
यत्रैकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानम् । सम्यगवायनं वर्षधरआचारादीनां "या" नद्यादिपर्वतानां यत्र स समवायः। व्याख्यायन्ते जीवादिगतयो यत्र
नयद्वारेण प्ररूपणाः क्रियन्ते सा व्याख्याप्रज्ञप्तिः । ज्ञाता-दृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते ताः ज्ञातधर्मकथाः । उपासकैः-श्रावकैरेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशाः। अन्तकृतः-सिद्धास्ते यत्र ख्यायन्ते वर्धमानस्वामिनस्तीर्थ एतावन्त इत्येवं सर्वकृतान्ताः अन्तकृद्दशाः । अनुत्तरोपपादिका देवा येषु ख्याप्यन्तै ताः अनुत्तरोपपादिकदशाः। प्रनितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणम् । विपाकः-कर्मणामनुभवस्तं सूत्रयति-दर्शयति तद् विपाकसूत्रम् । दृष्टीनाम् अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तासां वा तत्र पातः । अत्रावसरे चोदक आह-उक्तं लक्षणं विधानं च श्रुतस्य, किन्तु यथाऽयं विषयं निरूपयिष्यते तथा न कश्चिद् भेदोऽस्तीति पृच्छति मतिश्रुतयोः को भेद इति ? । भण्यतेभा०-उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम्, श्रुतज्ञानं तु
त्रिकालविषयम् , उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति ॥ अत्राहमतिश्रुतयोः प्रतिविशेषा
गृहीमो मतिश्रुतयोनानात्वम् ॥ अथ श्रुतज्ञानस्य द्विविधमनेक
द्वादशविधमिति किकृतः प्रतिविशेष इति । अत्रोच्यतेटी०- उत्पन्नेत्यादिना । उत्पन्नः--स्वेन रूपेण जातः स्पर्शादिरों घटादिगतः, स चोत्पन्नो यदि तेन रूपेण सन्तिष्ठते न तु कपालाद्यवस्थां प्राप्तस्तदा स्पर्शनमतिज्ञानमेवं परिच्छिनत्ति--घटस्यायं स्पर्श इति, स चाप्युत्पन्नाविनष्टो यदि योग्यदेशस्थो भवति तदा परिच्छिनत्ति, न तु विप्रकृष्टदेशस्थमित्येतदाह-साम्प्रतकालविषयमिति । अनेन वर्तमानकालविषयता मतिज्ञानस्यावेदयते । श्रुतज्ञानं तु, तुशब्दः भेदप्रदर्शनपर इति । तं भेदमाहत्रिकालविषयम् । पुनश्चेदमैदम्पर्य व्याख्यानयति-उत्पन्नेत्यादिना । उत्पन्नो--वर्तमानस्तमपि नोइन्द्रियं मनआख्य परिचिन्तयति-कीदृशोऽयं कर्करस्पर्श इति, विनष्ठमप्यन्यत्र लग्नं शकेरास्पर्शमतीतं चिन्तयति-अस्याः प्राक् शकेरायाः मया स्पर्शोऽनुभूत इति । अनुत्पन्नम्आगामिनमेवंविध एषां क्षीरगुडादीनां प्रतिविशिष्टात् संस्कारात् स्पर्श उपयास्यतीति, अत उत्पन्नादिग्राहकम् । पुनश्चोदयति-अवगतो विशेष एतयोः, अथ श्रुतज्ञानस्य द्विविधादिभेदः किंकृत इति ? सर्वतद्रव्यश्रुतं भावश्रुतस्य निमित्तमिति शक्यं वक्तुम् । एवमुक्ते सूरिराह
भा०-वक्तृविशेषाद् दैविध्यम् । यदू भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरहेद्भिस्तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्छ
१ 'श्चैदमेव पदं' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org