________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ द्विसम्पत्नैर्गणधरैईब्धं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाङ्मतिबुद्धिशक्तिभिराचार्यैः कालसंहननायुर्दोषादल्पशतीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति ॥ ... टी०-वक्तृविशेषादित्यादिना । वक्तारः तस्य ग्रन्थराशेर्निबन्धकास्तेषां विशेषोभेदस्तस्माद् दैविध्यं-द्विविधत्वं-द्विभेदताऽनुमातव्या । यद्भगवद्भिरित्यादि। अयं पिण्डार्थः-तीर्थकृद्भिरर्थः कथितः स गणधरैर्गणधरशिष्यादिभिश्च रचित इति गणधरास्तवंशवर्तिनश्च द्वये वक्तारस्त दाद् द्विविधमिति । एतदाह-यद् उक्तं तैर्भगवद्भिरैश्वर्यादिगुणान्वितैः, सवेद्रव्यपयोयान् जानाति(नद्भिः)विशेषतः सर्वज्ञैः, तानेव सामान्यतः पश्यद्भिः सर्वदर्शिभिरिति । सामान्यकेवलिनो हि प्रधानभावं बिभ्रति ऋषयः, प्रधानतरास्तीर्थकराः परमर्षिभिः इत्याह, पूजां त्रिदशादीनामर्हद्भिरित्यतोर्हद्भिः ( सम्बन्ध-का० ७)।
किमर्थ कृतकृत्या अर्हन्तो गणधरेभ्यः कथयन्त्यर्थमिति ? । उच्यते" तत्स्वाभाव्यादिति । तेषामेष एव स्वभावस्तीर्थकृतां यतः
उत्पन्नदिव्यज्ञानैर्गणधरादिभ्यः प्रकाशनीयः सोऽर्थ इति, न च स्वभावेऽस्ति पर्यनुयोगो, भास्करप्रकाशवत् , किमर्थमयमंशुमाली जगत् प्रकाशयतीति न कश्चित् प्रश्नयति । अथवा अकृतार्थ एव तदा भगवान् , किमिति ? कर्मोदयभाक्त्वात् । कस्य कर्मण इति चेत् ? उच्यते-तीर्थकरनामाख्यस्य । तद्वयविशेषणमुपक्षिपति-परमशुभस्येत्यादि । परमं च तच्छुभं च परमशुभं तस्य । कथं परमशुभतेति चेद यतस्तस्मिन्नुदितेऽन्या असातादिकाः प्रकृतय उदिता अपि न स्वविपाकं प्रकटं दर्शयितुं शक्ताः, क्षीरद्रव्यापूरितकुम्भे पिचुमन्दरसबिन्दुवदिति । एवं परमशुभस्य, प्रवचनं द्वादशाङ्गं ततोऽनन्यवृत्तिर्वा संघस्तस्य प्रवचनस्य प्रतिष्ठापनं-निवर्तनं प्रयोजनमस्य तत्प्रवचनप्रतिष्ठापनफलं तस्य, तीर्थ तदेव गणिपिटकं सङ्घः, सम्यग्दर्शनादित्रयं वा तत् कुर्वन्ति-उपदेशयन्ति ये ते तीर्थकराः, तान् नामयति-करोति यत् तत् तीथकरनाम । तस्य तदेवाहदादिपूजाकरणाद्धेतोः क्रियमाणं कर्मेत्यभिधीयते तस्यानुभावात् , पश्चाद् विपाकादित्यर्थः। अतस्तस्मादनुभावाद् यदुक्तं-प्रतिपादितं तीर्थकृद्भिः तदेव तीर्थकरप्रतिपादितमर्थजातम्-उत्पन्नमिति वा विनष्टमिति वा ध्रुवमिति वा इत्येवं तद् गृहीत्वा गणधरैः, तेषां त्रितयं विशेषणमुपक्षिपतिभगवच्छिष्यैरित्यादिना स्वयं गृहीतलिङ्गतां निरस्यति । पुनश्च सामान्य
. पुरुषा न भवन्तीति दर्शयति-अतिशयवद्भिरिति । अतिशयाःगणधरविशेषHd विशिष्टाः शक्तयः। यथा-" पहू णं चउद्दसपुव्वी घडादो( ओ?)
- घडसहस्सं पडाओ पडसहस्सं" इत्येवमादयः, ते येषां सन्ति तेऽतिशयवन्तस्तैरिति । तथा उत्तमातिशयेत्यादिना कुण्ठतां निरस्यति, यत उत्तमा अतिशयाः (बीज
१ प्रभुः चतुर्दशपूर्वी घटात घटसहस्रं पटात् पटसहस्रम् (भगवत्यां सू० १९९)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org