________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
भा० - तद् द्विविधमङ्गबाह्यमङ्गप्रविष्टं च । तत् पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् । अङ्गबाह्यमनेकविधम् । तद्यथा - सामायिकं, श्रुतज्ञानस्य भेद- चतुर्विंशतिस्तवः, वन्दनं, प्रतिक्रमणं, कायव्युत्सर्गः, प्रत्याख्यानं, दशवैकालिकं, उत्तराध्यायाः, दशाः, कल्पव्यवहारौ,
प्ररूपणा
निशीथमृषिभाषितानीत्येवमादि ॥
So
व्याख्या
टी० - तद् द्विविधमित्यादिना । द्वौ चानेकथ द्वादश च द्वयनेकद्वादश ते भेदा यस्य तद् द्व्यनेकद्वादशभेदम्, तच्छ्रुतं द्विविधमिति, परोपाधिकं द्विविधत्वमिति वक्ष्यति। अङ्गबाह्यमिति । अङ्गानि-अवयवा आचारादयस्तेभ्यो बाह्यमिति अङ्गबाह्यम्, अङ्गेष्वाचारादिषु प्रविष्टम् - अन्तर्गतम् अङ्गप्रविष्टम्, अङ्गबाह्यमङ्गप्रविष्टम् च पुनरनेन भेदेन भेद्यम् - अनेकविधम्- अनेकप्रकारम्, अङ्गबाह्यं, द्वादशविधं - द्वादशभेदम् अङ्गप्रविष्टमेवं यथासङ्ख्यं यथोपन्यस्तमितियावत् । अङ्गबाह्यमनेकविधं सामायिकादि । समभावो अङ्गबाह्यादीनां यत्राध्ययने वर्ण्यते तत्तेन वर्ण्यमानेनार्थेन निर्दिशति - सामायिकमिति । सामायिकादीनां एवं सर्वेषु वक्ष्यमाणेष्वर्थसम्बन्धाद् व्यपदेशो दृश्यः । चतुर्विंशतीनां पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां वर्ण्यते स चतुर्विंशतिस्तव इति । वन्दनम् - प्रणामः स कस्मै कार्यः कस्मै च नेति यत्र वर्ण्यते तत् वन्दनम् | असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं यत्र वर्ण्यते तत् प्रतिक्रमणम् । कृतस्य पापस्य यत्र कायपरित्यागेन क्रियमाणेन विशुद्धिराख्यायते स कायष्युसर्गः । प्रत्याख्यानं यत्र मूलगुणा उत्तरगुणाश्च धारणीया इत्ययमर्थः ख्याप्यते तत् प्रत्याख्यानम्। दशविकाले पुत्रहिताय स्थापितान्यध्ययनानि दशवैकालिकम् । आचारात् परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेन उत्तराध्ययनानि । पूर्वेभ्य आनीय सङ्घसन्ततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते । दशा इति व्यवस्थावचनः शब्दः, काचित् प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति । कल्पव्यवहारौ कल्प्यन्ते - भिद्यन्ते मूलादिगुणा यत्र स कल्पः व्यवहियते प्रायश्चित्ताभवद्व्यवहारतयेति व्यवहारः । निशीथम् अप्रकाशं सूत्रार्थाभ्यां यद् ऋषिभिर्भाषितानि प्रत्येकबुद्धादिभिः कापिलीयादीनि, एवमादि सर्वमङ्गबाह्यं दृश्यम् ॥
भा०- - अङ्गप्रविष्टं द्वादशविधम् । तद्यथा - आचारः, सूत्रकृतं, स्थानं, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञातधर्मकथाः, उपासकाध्ययनदशाः, अन्तकृद्दशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिपात इति ॥ अत्राहमतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति १ । अत्रोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org