________________
सूत्रं २०]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
८९
टी० - श्रुतज्ञानमिति । मतिपूर्वमित्यस्यार्थं विवृणोति - मतिज्ञानपूर्वकं भवतीत्यनेन । मत्या कृतया ज्ञानं विशेषयति- मतिज्ञानमिति । तन्मतिज्ञानं पूर्वं यस्य तन्मतिपूर्वं भण्यते, अपेक्षाकारणं चेह पूर्वमित्यनेनोच्यते, यथा घटस्योत्पत्तावपेक्षाकारणं व्योमाद्यपेक्ष्यते, तेन विना तदभावात् एवमिह सति मतिज्ञाने लब्धिरूपे ततः श्रुतज्ञानस्यो - त्पत्तिरिष्टा न मतिज्ञानाभावे, किं पुनः कारणं तदेव मतिज्ञानं न श्रुतज्ञानीभवतीति मृत्तिकावद् घटरूपेण ? उच्यते एवं सति श्रुतज्ञाने प्रादुर्भूते मतिज्ञानस्य नाशः स्यात्, न चैतदिष्यते । यत आह- " जत्थ मई तत्थ सुअं, जत्थ सुअं तत्थ मई ( जत्थ आभिणित्रोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणि बोहियनाणं"" नन्दी ० सू० २४) । तस्मादपेक्षाकारणमेव मतिज्ञानं तस्योत्पत्तौ लब्धिरूपं भवति, न पुनः समवायिकारणमिति । एतच्च लक्षणमुक्तमेव, यतो मतिज्ञानभावे लक्ष्यते श्रुतमिति । एतच्च श्रुतज्ञानमेवमात्मकमिन्द्रियमनोनिमित्तं ग्रन्थानुसारि विज्ञानं यदिति तं च ग्रन्थं दर्शयति बहुभिः पर्यायशब्दः - श्रुतमाप्तवचनमित्यादिभिः । श्रूयते तदिति श्रुतम् अस्मिन् पक्षे शब्दोऽभिधीयते, तस्य शब्दस्य श्रुतज्ञानं - परिच्छेदकार श्रुतज्ञानमिति गृह्यते । एवं सर्वेष्वाप्तवचनादिषु षष्ठीसमास आश्रयणीयः, आप्तवचनस्य ज्ञानं यत्परिच्छेदकारि इत्येवम्, आसो- रागादिवियुतः तस्य वचनमिति ॥ ननु चार्थमेव कथयसि तीर्थकृत्, न सूत्रं ग्रथ्नाति गणधरास्तु सूत्रसन्दर्भेण व्याप्रियन्ते, कथं तर्हि इदमुच्यते - आप्तस्य - तीर्थकृतो वचनं द्वादशाङ्गं-गणिपिटक मिति १ । उच्यते - गौणीकल्पनामा -- श्रित्योक्तमाप्तस्य वचनमित्येतत् । कथम् ? यदा हि भगवान् जीवादिकमर्थं केवलज्ञानभास्खस्प्रभावप्रकाशितं गणधरेभ्य आचष्टे तदाऽसौ जीवादिरर्थस्तस्मिन् केवलज्ञानदर्शनात्मके तीर्थकृति समारूढ इव लक्ष्यते प्रतिविम्बाकारेणोपजायमानत्वात् अतोऽसावप्यर्थ आप्तो भवति, तदध्यारोपात्, तस्याप्तस्यार्थस्य तद्गुणधरवचनं प्रतिपादकमित्याप्तवचनं भण्यते । यद्वा गण धरवचनमेवाप्तवचनम्, निश्रयोपजायमानत्वात् आप्तवचनमुच्यते । एवमागमादिष्वपि घटमानमायोज्यमिति । आगच्छत्याचार्यपरम्परया वासनाद्वारेणेत्यागमः, उपदिआगमादीनां श्यते - उच्चार्यते इत्युपदेशः, ऐतिह्यमेवमेतद् वृद्धाः स्मरन्तीति, आनाव्युत्पत्स्यर्थः यते - अभ्यस्यते निर्जरार्थिभिरित्याम्नायः, प्रकर्षेण नामादिनयप्रमाणनिर्देशादिभिश्च यत्र जीवादयो व्याख्यातास्तत् प्रवचनम्, जिना रागादिसन्तानविजि (वर्जि ?) तास्तेषामिदं वचनमिति । एवमेभिरनर्थान्तरवर्तिभिः एकोऽर्थः प्रतिपाद्यते द्वादशाङ्गं गणिपिटक मितियावत् स चावश्यकादिराचारादिश्च ॥ एवं लक्षणतः पर्यायतश्चाभिधायाभिधानं दर्शयति
१ यत्र मतिस्तत्र श्रुत, यत्र श्रुतं तत्र मतिः ( यन्त्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानम् ) ।
२ ' दकमपीत्याप्त ' इति ख- पाठः ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org