________________
विचार:
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ मनस्ततो ज्ञेयकृतमनुग्रहं विक्लेदादिरूपमनुभवेद उपघात वा दाहादिरूपमिति ॥ अथामूर्तत्वान्न दह्यत इति, तदप्ययुक्तम् , आहेतस्य हि पुद्गलात्मकत्वात् मूर्तता मनस्यसिध्यत्, शरीरस्थं वा मनो विषयं निश्चिनोति, यथा हि स्पर्शनं करणमगत्वेति न वा शरीरात् तस्य निःसरणं, स्पर्शनं हि करणं सन्न निस्सरद्दष्टम् , अतो मनश्चिन्त्यमानैर्वस्तुभिः सह न श्लिष्यतीति व्यञ्जनावग्रहाभाव आख्यायते । चतुर्भिरिति चक्षुर्मनोव्यतिरिक्तानि चत्वार्येवेति, अन्यानि सांख्याभिमतानि निरस्यति-चतुर्भिरेव नातो व्यतिरिक्तैरिन्द्रियैरिति, स्पर्शनरसनघ्राणश्रोत्रैः शेषैरिति, उपर्युक्तवजैः भवति, व्यञ्जनावग्रहः सम्भवतीति यावत् । किमिति यदि एतानि चत्वार्यप्युपकरणेन्द्रियेण सह श्लिष्टं स्पर्शादिकं विषयमवच्छिन्दते नान्यथेति अतः प्राप्तविषयग्राहित्वादेषां सम्भवति व्यञ्जनावग्रह इति । एवमेतदिति लक्षणविधानाभ्यां
यन्निरूपितं मतिज्ञानं तस्य पुनः सम्पिण्डय भेदान् कथयति द्विविधमतिज्ञानस्य नस्य भेद- मित्यादिना । द्विविधमिति, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । चतु
विधमवग्रहादिभेदतः । अष्टाविंशतिविधमिति, स्पर्शनादीनां मन:पर्यवसानानां पण्णामेकैकस्य चत्वारो भेदा अवग्रहादयस्ते समुदिताः सर्वेऽपि चतुर्विंशतिरुपजाताः, ततोऽन्यच्चक्षुर्मनोवर्जस्पर्शनादीनां यो व्यञ्जनावग्रहः चतुर्भेदः स प्रक्षिप्तः, ततोऽष्टाविंशतिविधं भवति । अष्टषष्टयुत्तरशतविधमिति, तस्या एवाष्टाविंशतेरेकैको भेदः पइविधो भवति बह्वादिभेदेन अत अष्टषष्टयुत्तरशतविधं भवति । तस्या एवाष्टाविंशतेरेकैको भेदो द्वादशधा भवति सेतरबहादिद्वादशकेन, अतः षट्त्रिंशत्रिशतभेद(विध)मिति ॥ १९॥
अत्र-अस्मिन्नवकाशे चोदकः आह-गृह्णीमो जानीमस्तावत् क्रमेण पूर्वमुद्घट्टितं लक्षणविधानरूपं मतिज्ञानं, तदनन्तरं तु यच्छ्रतज्ञानमुक्तं तन्न विद्म इत्यतः पृच्छयते मया-अथ श्रुतज्ञानं किंलक्षणमिति ? । अस्मिन् चोदिते गुरुराह-उच्यते मयेति
सूत्रम्-श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् ॥ १-२०॥ टी-श्रुतमिति लक्ष्य, मतिपूर्वमिति लक्षणं, यादिविधानं, श्रुतमिति च श्रूयते
. स्म श्रुतम् । एवंविधायां च कल्पनायां शब्दोऽभिधीयते न श्रुतिः, श्रुतं
" श्रवणमिति भवासाधनतामभ्युपैति, प्रकृतेन ज्ञानग्रहणेन श्रुतमिति ज्ञानं ग्राह्य, न शब्दः, ज्ञानविचारप्रस्तावात् । यदि तु श्रुतज्ञानस्यान्तर्वर्तिनः स शब्दो निमित्तता प्रतिपद्यमानः श्रुतव्यपदेशमश्नुते न कश्चिद् दोषः, उपचारस्य व्यवहाराङ्गत्वात् । मुख्यया तु वृत्या श्रुतमित्यनेन ज्ञानमुच्यते, एतदाह___ भा०-श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमाप्तवचनं आगमः उपदेश ऐतिषमाम्नायः प्रवचनं जिनवचनमित्यनर्थान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org