________________
सूत्र १६ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् दिस्पर्शानां यं किश्चिदेकं स्पर्शमवगृह्णाति अन्यान् सतोऽपि क्षयोपशमापकर्षात् न गृह्णाति तदाल्पम्-एकमवगृह्णातीत्युच्यते। बहुविधमवगृह्णातीति। बढ्यो विधा यस्य स बहुविधः तमवगृणाति । बहुविधो नाम स एव योषिदादिस्पर्श एकैकः शीतस्निग्धमृदुकठिनादिरूपो यदाऽवगृह्यते तदा बहुविधं गुणैर्भिन्नं स्पर्श परिच्छिन्दत तज्ज्ञानं बहुविधमवगृहणातीत्युच्यते। यदा तु योपिदादिस्पर्शमेवैकगुणसमन्वितं शीतोऽयमिति वा स्निग्धोऽयमिति वा मृदुरयमिति वेत्येवमवच्छिनत्ति तदा एकविधमवगृह्णातीत्युच्यते । तमेव भूयो योषिदादिस्पर्शमाशु स्वेनात्मना यदाऽवच्छिनत्ति तदा क्षिप्रमवगृह्णातीति भण्यते । यदा तु तमेव योषिदादिस्पर्श स्वेनात्मनाऽवच्छिनत्ति बहुना कालेन तदा चिरेणावगृह्णातीत्युच्यते । चिरेणेति बहुना कालेन । अनिश्रितमवगृहणातीति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्त शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतस्तेनानुमानेन लिङ्गेन तं विषयं न यदा परिच्छिन्दत् तज्ज्ञानं प्रवर्तते तदा अनिश्रितं अलिङ्गमवगृह्णातीत्युच्यते । यदा त्वेतस्मादाख्याताल्लिङ्गात् परिच्छिनत्ति निश्रितं तदा स लिङ्गमवगृह्णातीति भण्यते । उक्तमवगृह्णातीत्ययं तु विकल्पः श्रोत्रावग्रहविषय एव न सर्वव्यापीति । यत उक्तमुच्यते शब्दः स चाप्यक्षरात्मकः तमवगृह्णातीति । अनुक्तस्तूक्तादन्यो “ नजिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ(गतिः)" (परिभाषेन्दुशेखरे प० ७४) इति अनया कल्पनया शब्द एवानक्षरात्मकोऽभिधीयते तमवगृह्णाति अनुक्तमवगृह्णातीति भण्यते । अव्याप्तिदोपभीत्या चापरैरिमं विकल्पं प्रोज्झ्य अयं विकल्प उपन्यस्तो निश्चितमवगृह्णातीति, निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृहत् ज्ञानं योषित एव पुष्पाणामेव चन्दनस्यैवेत्येवं यदा प्रवर्तते तदा निश्चितमवगृह्णातीत्युपदिश्यते । अनिश्चितमवगृह्णातीति च कदा व्यपदिश्यते । यदा तमेव स्पर्श संशयापन्नः परिच्छिनत्ति स्पर्शोऽयं भवति एवं तु न निश्चिनोतियोषित एवायं, विलोमधर्मादेरपीदृशो भवति स्पर्श इति संशयप्रादुर्भावात् । ध्रुवमवगृहणातीति । ध्रुवमत्यन्तं सर्वदेत्यर्थः । यदा यदा तस्य तेन स्पर्शेन योगो भवति योषिदादिना तदा तदा तमर्थमवच्छिनत्तीत्यर्थः । एतदुक्तं भवति-सति चोपयोगे यदाऽसौ विषयः स्पशोख्यः स्पृष्टो भवति तदा तमवगृह्णाति, एवम् अध्रुवमवगृहणातीति । सतीन्द्रिये सति चोपयोगे सति च विषयसम्बन्धे कदाचित् तं विषयं तथा परिच्छिनत्ति कदाचिन्नेत्येतदध्रुवमवगृह्णातीत्युपदिश्यते । एवमित्यनेनेतत् कथयति-यथा विषयस्य बहादेर्भेदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः क्षयोपशमोत्कर्षापकर्षाद् एवम् ईहादीनामपि ईहापायधारणानामपि जानीयाद्, बह्वीहते अल्पमीहते बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीहते निश्रितमीहते उक्तमीहते अनुक्तमीहते, द्वितीयविकल्पे निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते । एवमपायेऽपि बहपैतीत्यादयो द्वादश विकल्पाः, धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधत्वम् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org