SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तखार्थाधिगमसूत्रम् [ अध्यायः १ इति, एतन्निरासायाह-सेतराणाम् , सप्रतिपक्षाणामित्यर्थः। एतत् कथयति-इतरशब्दस्य विरोधी योऽर्थः स वाच्यो भवति, बहर्थस्य च स्तोकार्थो विरोधी प्रतिपक्षः, इत्येवं शेषाणां प्रतिपक्षता ज्ञेया, एवं सम्बन्धं लगयित्वाऽर्थ कथयति भा०-बहवगृहणाति अल्पमवगृह्णाति । बहुविधमवगृह्णाात एकविधअल्पावग्रहा .. मवगृह्णाति । क्षिप्रमवगृहणाति चिरेणावगृहणाति । निश्रितमव गृह्णाति अनिश्रितमवगृह्णाति। असन्दिग्धमवगृहणाति सन्दिग्धमवगृह्णाति'। ध्रुवमवगृह्णाति अध्रुवमवगृह्णाति । इत्येवमीहादीनामपि विद्यात् ॥ १६॥ टी०-बहवगृह्णाति इत्यादिना ॥ ननु चावग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे (१-१५), बहादयश्चेह षष्ठयन्ता इति तत्रैवमर्थकथनं युक्तं-बहोरर्थ- बलवणहस्य स्यावग्रहः अल्पस्यार्थस्यावग्रह इति। उच्यते-नायं दोषः, यतोऽवग्रहादयः . स्वरूपम् कर्तृसाधनाः तत्र श्रुताः, अवगृह्णातीत्यवग्रहः, ईहत इति ईहा, अपैतीत्यपायः, धारयतीति धारणा, यश्चासौ ज्ञानांशोऽवगृह्णातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यम्, तच्चेह बहादिभेदं सूत्रेण विषयात्मकं भण्यते, अतो नास्त्यर्थभेदो बहोरवग्रहः बहुमवग्रहातीति, अनयोः एक एवार्थः, केवलं तु शब्दभेद उच्यते। स्पर्शनावग्रहस्तावदेवं बहुमवगहाति-शय्यायामुपविशन् पुमान् तत्स्थयोषितपुष्पवस्त्रचन्दनादिस्पर्श बहुं सन्तमेकैकं भेदेनावबुध्यते, अयं योषित्स्पर्शोऽयं च तल्लग्नपुष्पस्पर्शोध्यं च तद्गात्रानुलग्नचन्दनस्पर्शोऽयं चैतत्परिहितवस्त्रस्पर्शः अयमेतदाबद्धरसनास्पर्श इति, अतो बहुलपर्श भिन्नजातीयमवगृह्णातीति ॥ ननु चावग्रह एकसामयिकः शास्त्रे निरूपितो न चैकस्मिन् समये चैवैकावग्रह एवंविधो युक्तोऽल्पकालत्वादिति। उच्यते-सत्यमेवमेतत्, किंतु अवग्रहो द्विधा-नैश्चयिको व्यावहारिकश्च ॥ तत्र नैश्चयिको नाम सामान्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिहितः, ततो नैश्चयिकादनन्तरमीहैवमात्मिका प्रवर्तते-किमेष स्पर्श उतास्पर्श इति, तस्याश्वानन्तरोऽपायः स्पर्शोऽयमिति, अयं चापायः अवग्रह इत्युपचर्यते, आगामिनो भेदानङ्गीकृत्य यस्मादेतेन सामान्यमवच्छिद्यते । यतः पुनरेतसादीहा प्रवर्तिष्यते कस्यायं स्पर्शः ? पुनश्चापायो भविष्यत्यस्यायमिति, अयमपि चापायः पुनरवग्रह इत्युपचर्यते, अतोऽनन्तरवर्तिनीमीहामपायं चाश्रित्य, एवं यावदस्यान्ते निश्चय उपजातो भवति, यत्रापरं विशेष नाकाङ्क्षतीत्यर्थः । अपाय एव भवति न तत्रोपचार इति । अतो य एष औपचारिकोऽवग्रहस्तमङ्गीकृत्य बहु अवगृह्णातीत्येतदुच्यते, नत्वेकसमयवर्तिनं नैश्चयिकमिति, एवं बहुविधादिषु सर्वत्रौपचारिकाश्रयणाद् व्याख्येयमिति । सम्प्रति बहित्यस्य प्रतिपक्षं कथयति-अल्पमवगृह्णातीत्यनेन, यदा तेषामेव योषिदा १'अनुक्तमवगृहणाति उकमवगृह्णाति ' इति घ-पाठः। २ ‘विन्द्यात् ' इति क-पाठः। ३ 'तत्राश्रिताः' इति क-ख-पाठः । ४ 'बहुलस्पर्श'इति.ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy