________________
सूत्रं १६ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
मुदेति तदा तदेवावधारणमिति भण्यते यस्मादवधारयति कालान्तरानुभूतमर्थमेवमेतन्मया सेवितमिति । सम्प्रति पर्यायशब्दैस्तामेव त्रिप्रकारामाचष्टे - धारयत्यर्थं त्रिभिरप्येभिः प्रकारैः सा धारणा । प्रतिपत्तिर्नाम परिच्छिन्नेऽर्थे यावदन्यत्रोपयोगं न याति तावदनाशस्तस्यार्थस्य तस्मिन् विज्ञान इति । अवधारणं पुनः कालान्तरानुस्मरणमागृहीतम् । अवस्थानमित्यनेन तु अन्यत्र पदार्थे उपयुक्तस्य या लब्धिरूपा धारणा सा गृहीता । पुनरेषामन्ये त्रयो यथासदुव्यकेन भेदा निदर्श्यन्ते - निश्चयोऽवगमोऽवबोध इति । निश्चय इत्ययं प्रतिपत्तिरित्यस्य पर्यायः, अवगम इत्ययं तु मत्यवस्थानस्य लब्धिरूपस्येति । अथवा अविशिष्टधारणायाः सर्व एते पर्याया इत्यनर्थान्तरमित्याह । भावना चैवं कार्या - अपवरकाद्यन्धकारस्थितेन पुंसा यदा स्पर्शनेन्द्रियेणोपलब्धमाद्यक्षणे सामान्यम निर्देश्यम शेष कल्पनारहितं सोऽवग्रहः । यदा पुनस्तमेव विचारयति किमयं मृणालस्पर्श उता हिस्पर्श इति सेहा । यदाऽस्य निश्चितं भवति मृणालस्यैवायं नाहेरिति सोऽपायः । यदा तु निश्चितं सन्तमविच्युतिरूपेण धारयति लब्धिरूपेण वा कालान्तरानुस्मरणे वा सा धारणा । एवं रसनादिभिः रसादीनां योपलब्धिः सैकैका चतुर्विधा भावनीयेति ।। १५ ।।
अत्राह – एते ह्यवग्रहादयो ज्ञानविशेषाः क्षयोपशमवैचित्र्यात् स्पर्शादिकमर्थमन्यथा वाऽन्यथा निश्चिन्वन्तस्तथाव्यपदेशभाज इत्युक्तम् ॥ अथैषां स्वस्थाने क्षयोपशमवैचित्र्यमस्ति नास्तीति ? | उच्यते-अस्ति, यतोऽवग्रहः क्षयोपशमोत्कर्षापकर्षापेक्षोऽनेकधा बढादेरर्थस्य परिच्छेदकः, एवमीहादयोऽपीति, एतदनेन प्रतिपादयति सूत्रेण - सूत्रम् - बहुबहुविधक्षिप्रानिश्रितासन्दिग्धधुवाणां सेतराणाम् ॥१- १६ ॥
टी० - बहुबहुविधेत्यादिना । श्रुतानुमितैश्च पदैः प्रायो व्याख्या सूत्राणाम्, इष्टेऽपि अनुमीयमानैरवग्रहादिभिर्ब्रह्वादीनां सम्बन्धं लगयन्नाह—
भा०—अवग्रहादयश्चत्वारो मतिज्ञानविभागाः एषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः । सेतराणामिति सप्रतिपक्षाणामित्यर्थः ॥
टी० -- अवग्रहादयश्चत्वार इत्यादि । अवग्रहादयः प्रागत्र (१-१५) निरूपितस्वरूपाः मूलभेदतत्वारइति, क्षयोपशमवैचित्र्यात् तु नानाभेदास्तएव भवन्तीति अवग्रहादेर्बहा मत्वा चत्वार इत्याह । मतिज्ञानस्य च प्रकृतत्वात् तद्भेदा एत इतिदयो भेदाः मतिज्ञानविभागा इत्याह, अवग्रहादयः । एतेऽवग्रहादयः एषां सूत्रोपन्यस्तानां बहादीनां षण्णाम् अर्थानाम् अर्यमाणानामित्यर्थः । बह्रादीनां पण्णामर्थानां सेतराणां च तेऽवग्रहादयो ग्राहका इत्यर्थ इत्याह- सेतराणां भवन्तीति । एकश इति च । एकैकस्य बह्वादेरर्थकलापस्य सेतरस्य ग्राहका इति एकैकोऽवग्रहादिरेकशः । सेतर इत्यस्य चार्थो नैवं ग्राह्यः - बहोरर्थस्य क्षिप्रार्थ इतर इति शक्यं वक्तुम्, एवं बह्वादीनामनिश्रितादिरितर १ 'वाऽन्यथा' इति ख-ग-पाठः । २ ' ० श्रितानुक्तध्रुवा ०' इति घ-पाठः ।
Jain Education International
८३
For Private & Personal Use Only
www.jainelibrary.org