________________
८२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ भा०-अवगृहीते विषये सम्यगसम्यगिति गुणदोपविचारणा अध्यवसायापनोदोऽपायः । अपायोऽपगमः, अपनोदः अपव्याधः, अपेतमपगतमपवि. द्धमपनुत्यमित्यनर्थान्तरम् ॥ टी०-अवगृहीते इत्यादि । अनेनापि क्रममाचष्टे, सामान्येनावगृहीते स्पर्शसा
मान्यविषये अनिर्देश्यादिरूपे तत उत्तरकालमीहायां प्रवृत्तायां, कथमिति अपायस्य
चेत् ? उच्यते-सम्यगसम्यगित्येवं मृणालीस्पर्शः किमुताहिस्पर्श इति । स्वरूपम्
मृणालीस्पर्श इत्येवमादानाभिमुखत्वात् सम्यक् न अहिस्पर्शोध्यमित्येवं परित्यागाभिमुखत्वादसम्यगिति, तत उत्तरकालं सम्यगित्यपायः प्रवर्तते, नत्वसत्येतस्मिन् द्वय इति । स पुनः फिरूपोऽपाय इति ? उच्यते-गुणदोषेत्यादि । गुण इति यस्तस्मिन् साधारणो धर्मो मृणाले स गुणः, दोषस्तु यस्तत्र न सम्भवति धर्मः स दोषः, गुणश्च दोषश्च गुणदोषौतयोर्विचारणा-मार्गणा गुणदोषविचारणा तया गुणदोषविचारणया यः प्रवर्ततेऽ ध्यवसाय:-चित्तं, कीदृशम् ? अपनोद इत्येवंरूपः, अपनुदतीत्यपनोदः सोऽध्यवसायोऽपनुदति तत्रासन्निहितधर्ममिति मृणालस्येवायं स्पर्शः अत्यन्तशीतादिगुणसमन्वितत्वादिति अस्यैवायमिति यः प्रत्ययोऽन्यस्य न भवतीति सः अपायः । संप्रत्येवं लक्षणतो निर्धारितस्वरूपं पर्यायशब्देस्तमेव व्यपदिशत्यनर्थान्तरभूतैः अपायोऽपगम इत्यादिभिः। अपैतीत्यपायः, निश्चयेन परिच्छिनत्तीत्यर्थः । अपगच्छत्यपनुदति.अपविध्यतीत्यर्थः । पुनश्चापाय इत्यस्य भावार्थमुररीकृत्य भावाभिधायिभिरेव कथयति-अपेतमपगतमित्यादिभिः । मृणालस्यैवायं स्पर्श इति येयं फलरूपा परिच्छित्तिस्वभावता ज्ञानस्येति सा भावाभिधायिभिरेभिरुच्यते, अपेतमपगतं परिच्छिन्नमेतन्मया एवमेतन्नान्यथेत्यर्थः । एवं निश्चितस्यार्थस्योत्तरकालं यदविसरणम् , अधुना यदा चान्यत्रार्थे उपयुक्तो भवति तदापि या वासना लब्धिरूपा यद् वाऽन्यस्मिन् कालान्तरेऽनुसरणमेतन्मया प्रागासेवितमित्येषा त्रिरूपा धारणाभिधीयते तां दर्शयति
भा०-धारणा प्रतिपत्तियथास्वं मत्यवस्थानमवधारणं च। धारणा प्रतिपत्तिरवधारणावस्थानं निश्चयः अवगमः अवबोध इत्यनर्थान्तरम् ॥ १५ ॥ .टी०-धारभा प्रतिपत्तिरित्यादिना।धारणेति लक्ष्यम्, प्रतिपत्तियथास्वमित्यनेनाचं
भेदमादर्शयति, अस्मिन् काले निश्चितस्यार्थस्य यावदन्यत्र नोपयोगं याति तावत् अर्थस्य यद् दर्शनमप्रच्युतिः साप्रतिपत्तिः यथास्वमित्युच्यते,प्र
तिपत्तिः-अप्रच्युतिः यथास्वं-यथाविषयं यो यः स्पर्शादिविषय आगृहीतः तस्याऽनाश इत्यर्थः। मत्यवस्थानमित्यनेन द्वितीयां लब्धिरूपांधारणां कथयति, यदा अपायं स्पर्शादेविषयस्य कृत्वाऽन्यत्रोपयुक्तो भवति तदाऽप्यसो लब्धिरूपा धारणा समस्ति, अतो मत्यवस्थानमिति ब्रूते । मतेः धारणाख्याया अवस्थानं शक्तिरूपं मत्यवस्थान भण्यते । अव. धारणं चेत्यनेन तृतीयभेदं कथयति । यदा कालान्तरे तमेव प्रागनुभूतं विषयमालम्ब्य ज्ञान
१'विचारणया' इति ख-पाठः । २०मपनुत्त०' इति घ-पाठः। '०वधारणमव० ' इति घ-पाठः ।
धारणाया: स्वरूपम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org