________________
सूत्रं १५ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
८१
वग्रहः, किं पुनः कारणमाद्ये क्षणे तं विषयं परिच्छेत्तुं यथावन्न शक्नोति परतश्च यथावच्छक्ष्यति ? | उच्यते - मतिज्ञानावरणीयकर्मणः स तादृशः क्षयोपशमो येनादौ तं विषयं सामान्येन परिच्छिनत्ति, ईहायां चान्यादृशः क्षयोपशमो यतस्तमेव स्फुटतरमीहिष्यते, अपाये चान्यादृशः क्षयोपशमो येन तमेव विषयं स्फुटतरमवच्छिनत्तीति, धारणायामप्यन्याशयेनावधारयिष्यतीति, तस्मान्मलीमसत्वात् क्षयोपशमस्यादावव्यक्तमवधारणं यत् सोऽवग्रह इत्युच्यते । एवं स्वचिह्नतो ऽवग्रहं निरूप्य पर्यायशब्दैस्तमेव कथयति - अव (ग्रहो ग्रहो ) ग्रहणमालोचनावग्रहोऽभिधीयते अवधारणं चेति, योऽसौ सामान्यपरिच्छेदः स एभिः शब्दैरर्थतो नानात्वमप्रतिपद्यमानैरभिधीयते । एवमवग्रहं कथयित्वा ईहायाः स्वरूपमाचिख्यासुराह
भा० – अवगृहीतम् । विषयाथैकदेशाच्छेषानुगमनम् । निश्चयविशेषजिज्ञासा चेष्टा ईहा । ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरम् ॥
टी० - अवगृहीतमित्यादि । अवगृहीतमित्यनेन क्रमं दर्शयति- सामान्येन गृहीते हा प्रवर्तते न पूर्वमेवेति यदा हि सामान्येन स्पर्शनेन्द्रियेण स्पर्शसा - ईहायाः स्वरूपम् मान्यमागृहीतमनिर्देश्यादिरूपं तत उत्तरं स्पर्शभेद विचारणा ईहाभिधीयत इति । एतदाह – विषयाथै केत्यादि । विषयः - स्पर्शादिः स एव परिच्छेदकालेऽर्यमाणत्वात् परिच्छिद्यमानत्वादर्थ इत्युच्यते, विषयश्चासावर्थश्च विषयार्थः तस्यैकदेशः सामान्यमनिर्देश्यादिरूपं तस्मात् विषयाथैकदेशात् परिच्छिन्नादनन्तरं यत् शेषानुगमनं शेषस्य-भेदविशेषस्येत्यर्थः । अनुगमनं विचारणं, शेषस्यानुगमनं विशेषविचारणमित्यर्थः । किमयं मृणालीस्पर्शः उताहो सर्पस्पर्श इति । न चैतत् संशय विज्ञानमिति युज्यते वक्तुम्, यतः संशयविज्ञानमेवंरूपं भवति यदनेकार्थावलम्बनमूर्ध्व तासामान्यं पश्यतः किमयं स्थाणुरुत पुरुष इति नैकस्यापि परिच्छेदं शक्तं कर्तुमिति तत् संशयविज्ञानमभिधीयते । ईहा पुनरेवंविधलक्षणविपरीता, यतः स्पर्शसामान्य उपलब्धे तदुत्तरकालं मृणालस्पर्शे सद्भूतविशेषादानप्रवृत्ता, असद्भूतविशेषपरित्यागप्रवृत्ता चेहेत्यभिधीयते । अभी पूर्व मृणालस्पर्शे मया सद्भूता विशेषा अनुभूता इत्यतस्तदभिमुखाऽसौ, अमी च नानुभूता इति तत्परित्यागाभिमुखा, अतो न संशयविज्ञानेनास्याः साम्यमस्तीत्येतदाह-निश्चयविशेषजिज्ञासा ईहा । निश्चीयतेऽसाविति निश्चयः । कोऽसौ ? विशेष इत्याह, विशिष्यते - भिद्यतेऽन्यस्मादिति विशेषः, निश्चयश्चासौ विशेपश्च निश्चयविशेषः, निश्चितो विशेष इत्यर्थः, तस्य ज्ञातुमिच्छा या सा जिज्ञासा, विद्यमानाविद्यमानविशेषादान परित्यागाभिमुखेत्यर्थः । सैवंविधा ईहाऽभिधीयते । एवं स्वचिह्नेन ईहां निरूप्य पर्यायशब्दैरर्थतो नानात्वमप्रतिपद्यमानैरसम्मोहार्थं तामेवाचष्टे - ईहा ऊहा इत्यादि । यत्तद्विशेषविचारणं सा तदीहेत्येवात्राभिधीयते, चेष्टा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्येवं नास्त्यर्थभेद एषां शब्दानाम्, सत्यपि चार्थभेदेऽन्यत्रेहा नार्थान्तरभूता एवैते, एकरूपत्वात् । ईहायाः स्वरूपमाख्याय अपायस्य तदनन्तरवर्तिनः स्वरूपं दिदर्शयिषुराह१ 'अवगृहीते' इति घ-पाठः, समीचीनतरच |
1
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org