________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ ग्राह्यभेदाद् भेदं प्रतिपाद्येदानीमेषामेवावग्रहादीनां विषयं निर्धारयन्नाह
सूत्रम्-अर्थस्य ॥ १-१७ ॥ भा०-अवग्रहादयो मतिज्ञानविकल्पा अर्थस्य भवन्ति ॥ १७ ॥
टी-अर्थस्येति । कस्य विषयस्य ग्राहका अवग्रहादय इति मन्येथास्त्वम् ? । अर्थस्येति ब्रूमः। अर्थश्च स्पर्शरसगन्धवर्णशब्दात्मकः तस्य स्पर्शादेरर्थस्य अवग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पाः अंशा इत्यर्थः । तदेवं विभज्यमानमेभिर्भेदैरवतिष्ठत इति यदि तर्हि स्पर्शादेविषयस्य ग्राहकाः अवग्रहादयोऽभ्युपगम्यन्ते न तर्हि द्रव्यस्य ज्ञानं चक्षुरादिजं किञ्चिद् ग्राहकं समस्ति छानस्थिकम् ? । उच्यतेस्पर्शादयो द्रव्यपर्यायाः, पर्यायग्रहणाच द्रव्यमवच्छिन्नमेवावसातव्यं, तेन रूपेण द्रव्यस्यैव भवनात् , यतो न द्रव्यवियुताः पर्यायाः, पर्यायविरहितं वा द्रव्यम् , अन्यतरानुपलब्धावन्यतरस्यानुपलब्धेः । प्रतीन्द्रियप्राप्त्या द्रव्यस्यैव रूपादिविशेषणभाक्त्वात् , विवक्षावशाच प्रधानगुणभावाभ्युपगमः प्रतिपद्यते जैनैः, अतः स्पर्शादिग्रहणे द्रव्यग्रहणमवश्यंभावि द्रव्यग्रहणे वा स्पर्शादिग्रहणम् , अन्योन्यानुगमात् । अर्थस्य स्पर्शादेः सामान्यानिर्देश्यस्वरूपस्य नामादिकल्पनारहितस्य अवग्रहो ग्राहकः, तस्यैव स्पर्शादेः किमयं स्पर्श उतास्पर्श इत्येवं परिच्छेदिका ईहा, तस्यैव स्पर्शोऽयमित्येवं परिच्छेदकोऽपायः, तस्यैव स्पर्शादेरर्थस्य परिच्छिन्नस्योत्तरकालमविस्मृतिर्या सा धारणा । एवं रसादिष्वपि प्रत्येकमवग्रहादयो योज्याः। इदं च साधारणमवगम्यम्-अवग्रहादय एवार्थस्य मतिज्ञानविकल्पा ग्राहकाः नान्यो मतिज्ञा. नांश इति ॥ १७॥
अथ किमन्योऽप्यस्ति कश्चिन्मतिज्ञानांशो योऽर्थस्य ग्राहको न भवतीति नियमेनापास्यते? । उच्यते-अस्ति, यः सामान्यमात्रग्राहिणोऽप्यवग्रहादुक्तस्वरूपादत्यन्तमलीमसरूपोऽवग्रह इति । स तर्हि कस्य ग्राहक इति ? । उच्यते
सूत्रम्--व्यञ्जनस्यावग्रहः॥ १-१८॥ भा०-व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्याथेस्य च । इहादयस्त्वथेस्यैव ॥१८॥
टी०-व्यञ्जनस्यावग्रह इति । तत्र व्यज्यतेऽनेनार्थ इति व्यञ्जनं सन्तमसावस्थितघटरूपप्रदीपादिवत् , तत् पुनर्व्यञ्जनं संश्लेषरूपं यदिन्द्रियाणां स्पर्शनादीनामुपकरणाख्यानां स्पर्शायाकारेण परिणतानां पुद्गलद्रव्याणां च यः परस्परं संश्लेषस्तद्वयञ्जनं, तस्य व्यञ्जनस्यावग्रह एवैको भवति ग्राहकः । का भावनेति चेत् ? उच्यते-यदोपकरणेन्द्रियस्य स्पर्शनादेः पुद्गलैः स्पर्शाद्याकारपरिणतः सम्बन्ध उपजातो भवति न च किमप्येतदिति गृह्णाति किन्त्वव्यक्तविज्ञानोऽसौ सुप्तमत्तादिसूक्ष्मावबोधसहितपुरुषवदिति तदा तैः पुद्गलैः स्पर्शनाधु
१'विशेषेण' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org