________________
सूत्रं १३ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
वक्ष्यामः ॥ १२॥ अत्राह-उक्तं भवता मत्यादीनि ज्ञानानि उद्देश्य-तानि विधानतो लक्षणतश्च पुरस्ताद् विस्तरेण वक्ष्याम इति । तदुच्यतामिति । अत्रोच्यते-
टी० – मिथ्यादृष्टेर्हीत्यादि । यस्मान्मिथ्यादृष्टेर्जन्तोर्मतिश्रुतावधयस्त्रयोऽपि निचयेन कुत्सितमेव ज्ञानमज्ञानमिति भणिष्यते । यद्येवं कथं तर्हि मतिश्रुतयोरन्तर्भूतानीत्युक्तम् ? उच्यते - नयवादमाश्रित्यैतदुक्तम् । केन तर्हि नयवादान्तरेण मतिश्रुतान्तर्गतानीत्याहनयवादान्तरेण तु इत्यादि । नया-नैगमादयः तेषां वादः - स्वरुचितार्थप्रकाशनं नयवादः तस्य अन्तरं-भेदो नयवादान्तरं तेन नयवादभेदेनैव । यथा मतिश्च श्रुतं च मतिश्रुते तयोविकल्पा- भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा पुरस्तात् नयविचारणायां वक्ष्यामः ( १-३५ ) इतिशब्देन यस्य हि मिथ्यादृष्टिरज्ञो वा नास्तीति वक्ष्यति तन्मतेन तु प्रमाणानीति ।। १२ ।।
अत्रेति । एतस्मिन् ज्ञानपञ्चके कथिते सामान्येन प्रमाणद्वये च प्रत्यक्ष परोक्षरूपे विहिते, परोऽवोचत् उक्तं प्रतिपादितं त्वया, किमिति चेत् — उच्यते - मत्यादीनि पञ्च ज्ञानानि - मतिश्रुतावधिमनः पर्यायकेवलान्येव उद्दिश्य, तत इदमभिहितं तदुच्यते - तानि विधानतो लक्षणतश्च पुरस्ताद् विस्तरेण वक्ष्याम इत्येतत् ॥ ननु च नैवंविधं तत्र सूत्रे भाष्यमस्ति विधानतो लक्षणतश्चेति, कथमयमध्यारोपः क्रियते गुरोरिति । उच्यते—सत्यमेवंविधं भाष्यं नास्तीति एवं पुनः समस्ति प्रभेदास्त्वस्य पुरस्ताद् वक्ष्यत इति (१-९) । अतः प्रभेदा - मतिज्ञाने विधानलक्षणरूपाः प्रतिपाद्यन्ते तत्र भाष्ये, अतो नाध्यारोप इति । विधानं भेदः, मतिज्ञानं सभेदकं वक्ष्यामीति प्रतिज्ञातम्, तथा लक्षणम् - असाधारणं यच्चितं मत्यादेस्तच्च वक्ष्यामीति प्रत्यज्ञायि, तदुच्यतां विधानं लक्षणं चेति, एवं पर्यनुयुक्त आह— अत्रोच्यत इति ॥
अत्रैतास्मंश्वोदिते उच्यते मया, लक्षणमल्पविचारत्वात् अनेन सूत्रेण मतिः स्मृत्यादिना । अथवा नैव मतिज्ञानस्यानेन सूत्रेण लक्षणं कथयति, प्रतीतत्वात्, प्रतीतं हि लोके इन्द्रियानिन्द्रियजं ज्ञानं, यच्च प्रतीतं न तस्य लक्षणमाचक्षते विचक्षणाः, नहि हुताशनस्यो - ष्णतालाञ्छनमत्यन्तप्रतीतत्वादभिदधते विद्वांसः, किं तर्हि सूत्रेण प्रतिपादयति ? उच्यतेलक्षणं द्विविधं-तत्स्थमतत्स्थं चेति, तत्स्थमरौष्ण्यवत्, अतत्स्थं वारिणो बलाकादिवत्, मतिज्ञानस्य लक्षणं यत्तत्स्थं न पुनस्ततो ज्ञानाद् भिन्नमित्येतदादर्शयति सूत्रेण ॥ सूत्रम् - मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ १-१३ ॥ टी० - मतिः स्मृतिः संज्ञेत्यादि । अत एव च ज्ञानशब्दं प्रत्येकं लगयतिभा०- - मतिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं आभिनिबोधिकज्ञानमित्यनर्थान्तरम् ॥ १३ ॥
तत्र ' इति क-ग-पाठः ।
१
Jain Education International
७७
For Private & Personal Use Only
www.jainelibrary.org