________________
७६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ नीति मन्यन्ते, तत् कथमित्येवं मन्यन्ते, किमेषां तानि न सन्ति प्रमाणत्वेन ? उत प्रमाणान्तराणि न भवन्तीति ? । अत्रोच्यते मया
भा०-सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानि, इन्द्रियार्थसन्निकर्षनिमित्तत्वात् । किश्चान्यत् । अप्रमाणान्येव वा। कुतः । मिथ्यादर्शनपरिग्रहात् , विपरीतोपदेशाच्च ॥ टी.-सर्वाणि इत्यादि । सर्वाणि-समस्तानि एतानि-अनुमानादीनि मति
. ज्ञानश्रुतज्ञानयोरेव अन्तर्भूतानि-प्रविष्टानि । कयोपपत्त्येति चेत् तामुअनुमानादीनामिन्द्रियार्थसंबन्ध
- पपत्तिमाह-इन्द्रियार्थेत्यादि । इन्द्रियाणि-चक्षुरादीनि तेषामर्थातता रूपादयः इन्द्रियाणि चार्थाश्च इन्द्रियार्थास्तेषां सन्निकर्षः-सम्बन्धः
स इन्द्रियार्थसन्निकर्षो निमित्तं यस्य अनुमानादेस्तदिन्द्रियार्थसन्निकर्षनिमित्तम्-अनुमानादि । कथं पुनरिन्द्रियार्थसन्निकर्षः कारणमनुमानादेः १। उच्यतेअनुमानं तावच्चक्षुरादीन्द्रियधूमाद्यर्थसन्निकर्षजम्, अन्यथा तस्यासम्भवात्, इन्द्रियनिमित्तत्वात् सपरार्थस्यानुमानस्येति । उपमानमपि चक्षुरादीन्द्रियगवाद्यर्थसन्निकर्षजम् । आगमाख्यमपि श्रोत्रेन्द्रियस्य अनिन्द्रियस्य वा आप्तवचनार्थस्य सन्निकर्षे सति प्रादुरस्ति । शब्दा
पत्तिरप्येवमेव । अर्थार्थापत्तिस्तु चक्षुरादेरिन्द्रियस्य नीलादे रूपस्य च सन्निकर्ष एवोपजायते । सम्भवोऽपि प्रस्थमर्थ दृष्टा श्रुत्वा वा प्रादुरस्ति, एवं चक्षुःश्रोत्रयोः प्रस्थार्थप्रस्थशब्दयोः सन्निकर्षे सति तदुदेति । अभावोऽपि प्रमाणं प्रमेयाभावविषयः, मनसा विकल्प्यार्थमुत्तरत्र स एव विषयीभवति विकल्पितोऽर्थो, नानुमानादसौ भिद्यत इति, एवमिन्द्रियार्थ
. सन्निकर्षनिमित्तान्येतानि मतिश्रतयोरन्तर्भाव यान्तीति ॥ किंचान्यअनुमानादीनामप्रामाण्य हेतुः
H: दिति पक्षान्तरमाश्रयति । अप्रमाणान्येव वा । नैवानुमानादीनि प्रमा
___णानि, मिथ्यादर्शनसमन्वितत्वात्, अयथार्थोपदेशव्यापृतत्वात् उन्मत्तकवाक्यविज्ञानवत्, एतदेवाह-मिथ्यादर्शनेत्यादि । मिथ्यादर्शनम्-एकनयाश्रयणं तेन गृहीतं मिथ्यादर्शनपरिग्रहो भण्यते, यत एव च मिथ्यादर्शनपरिग्रहोऽत एव विपरीतोपदेशादिति । विपरीतम्-अन्यथावस्थितं नानाधर्मकं सद्वस्तु एकधर्मकमाश्रितं विपरीतं भण्यते, तस्य उपदेशः कथनं विपरीतोपदेशस्तस्मात् , यत एतान्येकनयावलम्बीन्यनुमानादीनि विपरीतमेकान्तपक्षाश्रितं वस्तु विच्छिन्दन्ति तस्मादप्रमाणानि परिकल्पितानीति । न च मिथ्यादृष्टिगृहीतं कदाचिदपि ज्ञानं भण्यते, किन्त्वज्ञानमेव, संसारहेतुत्वात्, एतच्चोत्तरत्र निदर्शयिष्यत्येव । यत आह
भा०-मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते (१-३२)। नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद् (१-३५)
१ 'विकल्पिताऽर्थो' इति क-ग-पाठः । २'धर्मकदम्बकं सदस्तु' इति क-ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org