________________
सूत्र १२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् न्तमिन्द्रियाणि अतीन्द्रियं ज्ञानं तद्भावोऽतीन्द्रियत्वं तस्मादिति, यत् प्राणिनां ज्ञानदर्शनावरणक्षयोपशमात् क्षयाच्च इन्द्रियानिन्द्रियद्वारनिरपेक्षमात्मानमेव केवलमभिमुखीकुवेदुदेति तत् प्रत्यक्ष-अवध्यादि । एवं तत् प्रमाणे (१-१०) इति द्वित्वसङ्ख्यायाः परोक्षप्रत्यक्षाख्यो यो विषयस्तमुपदर्य प्रमाणशब्दार्थकथने प्रावृतद् भाष्यकारः-प्रमीयन्तेऽर्थास्तरिति प्रमाणानीति । (प्रमीयन्ते)-परिच्छिद्यन्ते-यथावन्निश्चीयन्ते सदसन्नित्यानित्यादिभेदेनार्था-जीवादयस्तैरिति प्रमाणानि, करणे ल्युट, करणं ज्ञानमात्मनः, आहितप्रधानकारणस्य स्वतन्त्रस्य कर्तुरनेककारकशक्तियुक्तस्य साधकतमत्वविवक्षावशादवच्छेदिका शक्तिरर्थस्य करणव्यपदेशमश्नुते, तया करणभूतया परिच्छिनत्ति-अवबुद्धयते ज्ञानपरिणतिरूपयाऽऽत्मैव । तैरिति । प्रमाणद्वयेऽभ्युपगते बहुवचनमयुक्तमिति चेत्, न, व्यक्तिपक्षसमाश्रयणादिति, यतो मत्यादिकाः पश्च व्यक्तयः, तासां बहुत्वात् समीचीनमेव बहुवचनमिति । एवं द्वे परोक्षप्रत्यक्षे प्रमाणे भवत इति ख्यापिते चोदयति-इह शास्त्रे निर्धारितमेतद्-वे एव प्रमाणे, अन्यथा तत् प्रमाणे इत्यत्र या द्वित्वसङ्ख्या सा व्यथैव स्यात्, यद्यवधारणतया नाश्रीयेत, तस्मादवश्यंतया तद्
. वचनं नियमकारि प्रतिपत्तव्यम्-द्वे एव प्रमाणे, के च? प्रत्यक्षपरोक्ष अनुमानादीनां
4. इति, ततश्चान्येषामप्रमाणता आपन्ना, न च न सन्त्येवान्यानि, यतोऽनुप्रामाण्यविचारः
मानादीनि प्रमाणानि मन्यन्ते, साङ्ख्याः प्रत्यक्षानुमानागमाख्यानि त्रीणि, नैयायिकाः प्रत्यक्षानुमानोपमानागमाख्यानि, प्रत्यक्षानुमानशाब्दोपमानार्थापत्यभावा इति जैमिनीयाः । एतदाह
भा०-अनुमानोपमानागमार्थापत्तिसम्भवाभावान्यपि प्रमाणानि इति केचित् मन्यन्ते । तत् कथमेतदिति ? । अत्रोच्यते
टी०-अनुमानोपमानेत्यादि । तत्रानुमानं तावत् पक्षधर्मान्वयव्यतिरेकजनितं अनुमानादीनां ज्ञानम्, प्रसिद्धसाधात् साध्यसाधनमुपमानं, यथा गौस्तथा व्याख्या गवयः ।
“प्रसिद्धेन हि साधर्म्यात्, साध्यसाधनमिष्यते ।
उपमानं परैस्तच्च, यथा गौर्गवयस्तथा ॥" । तथा आप्तोपदेश आगमस्तदनुसारि ज्ञानमागम उच्यते प्रमाणं वर्णपदवाक्यात्मकः । तथार्थापत्तिद्विधा शब्दार्थापत्तिरार्थापत्तिश्चेति। तत्र शब्दार्थापत्तिर्देवदत्तो दिवा न भुङ्क्तेऽनुपहतेन्द्रियशरीरश्चेति, रात्रौ तर्हि भुङ्क्ते इति । तथा अर्थार्थापत्तिरपि नीलं पश्यतो यदिन्द्रियानुमानं समस्ति तत् किमपीन्द्रियं येनैतन्नीलं परिच्छिन्नमिति । सम्भवोऽपि प्रमाणंप्रस्थे कुडवः समस्ति, अस्मिन् प्रस्थाख्ये आधारे कुडव आधेयः सम्भवतीति एष सम्भवः। तथाऽभावोऽपि प्रमाणाभावविषयः, यत्र विषये प्रत्यक्षादिप्रमाणानामप्रवृत्तिरसावभावस्तद्विषयमपि ज्ञानमभाव इति व्यपदिश्यते । अत एव तान्यनुमानादीनि केचिदाचायोः प्रमाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org