________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
भूयस्त्वापेक्षत्वात् परोक्षं तद् भण्यते ॥ ननु चेन्द्रियोपष्टम्भेनोपजायमानस्य ज्ञानस्य प्रत्यक्षत्वं लोके प्रथितं, तदपाकरणप्रवृत्तस्य लोकविरोधः, तथा इदं रूपं प्रत्यक्षमिति योऽयं प्रत्ययो नायं परोक्षे दृष्टः । नहि धूमादग्निमवगच्छतोऽयमग्निरिति संप्रत्ययो भवति, ततश्च स्वप्रतीतेरपि विरोध इति । उच्यते इदं रूपं प्रत्यक्षमिति न तत्र मुख्यया वृत्त्या रूपं प्रत्यक्षं, ज्ञानमेव तु प्रत्यक्षं तेन प्रत्यक्षेण ज्ञानेनावच्छिन्नोऽर्थः प्रत्यक्ष इत्युच्यते, तस्य युक्ता प्रत्यक्षता । किंच-न सर्वथेन्द्रियनिमित्तस्य ज्ञानस्य प्रत्यक्षता, निषेधात् यतः सर्वथा तं विषयं न परिच्छेत्तुमलं, चक्षू रूपं गृह्णात्याराद्भागवर्ति, न परमध्यभागावस्थितम्, तथा श्रोत्रादि वाच्यम्, अवध्यादित्रयं पुनः सर्वात्मनाऽवगच्छति, अतस्तस्यैव युक्ता प्रत्यक्षता । किंच न सर्वथेन्द्रियनिमित्तस्य ज्ञानस्य प्रत्यक्षव्यपदेशो निषिध्यते, यतोऽयं निश्चयमङ्गीकृत्य भाष्यकृता प्रत्यक्षव्यपदेशो निषिध्यते, व्यवहारात्विष्यत एव । यतोऽभिहितं नन्द्याम् (सू० २-३ ) “तं समासओ दुविहं पण्णत्तं, (तं० पच्चक्खं च परोक्खं च । से किं तं पच्चक्खं ? पच्चक्खं दुविहं पण्णत्तं ) ० - इन्दियपच्चक्खं नोइन्दियपच्चक्खं चं" इन्द्रियप्रत्यक्षमिति ब्रुवता व्यवहारप्रत्यक्षता भवति, भाष्यकारस्यापि योगविभागात् तस्येन्द्रियजस्य ज्ञानस्य सिद्धा प्रत्यक्षता, स चैवं योगो विभजनीयः - आधे परोक्षं निश्चयतः ततः प्रत्यक्षं प्रत्यक्षं चाद्ये व्यवहारः, ततोऽन्यत् अवध्यादि एकान्तेनैव प्रत्यक्षमिति ॥ ११ ॥
एवं परोक्षं प्रदर्श्य प्राक् प्रतिज्ञातं प्रत्यक्षं प्रमाणं कथयन्नाह -
-
७४
सूत्रम् —— प्रत्यक्षमन्यत् ॥ १-१२ ॥
टी० - अन्यदिति चोक्ते जायते विचारणा- कुतोऽन्यदिति ? अवधीकृतमेव विच्छेदकारणं ख्यापयन् ते
भा० -मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत् प्रत्यक्षं प्रमाणं भवति । कुतः १ । अतीन्द्रियत्वात् । प्रमीयन्तेऽर्थास्तैरिति प्रमाणानि । अत्राह - इह अवधारितं - द्वे एव प्रमाणे प्रत्यक्षपरोक्षे इति ॥
टी० - मतिश्रुताभ्यामिति । मतिज्ञानश्रुतज्ञानाभ्यां यद्न्यत्, तस्य चैकैकस्य प्रत्यक्षतां प्रकाशयन्नाह - त्रिविधमिति । उक्तेऽपि चैतस्मिन् किं तत् त्रिविधमित्याह-ज्ञानं, प्रत्यक्षं प्रमाणं भवतीति । प्रत्यक्षं भवतीत्येतद् विधीयतेऽत्र, शेषस्यानुवाद इति । कुत इति च प्रश्नयितुरभिप्रायो ऽयम् - यद्यान्तरनिमित्तं क्षयोपशमः प्रत्यक्षतायाः कारणभावं प्रतिपद्यते स सर्वेषां मत्यादीनां साधारणः क्षयोपशमः कारणमस्तीति सर्वप्रत्यक्षत्वप्रसङ्गः, अथ प्रत्यक्षतायाः पृथग् निमित्तं तदुच्यतामिति, इतरस्तु असाधारणं त्रयाणां प्रत्यक्षतायाः प्रकटीकुर्वन् निमित्तमाह-अतीन्द्रियत्वादिति । अतिक्रा
अवध्यादेः
प्रत्यक्षता
१ ' निषेध्यते ' इति ख- पाठः । २ तत् समासतो द्विविधं प्रज्ञप्तं, ( तद्यथा - प्रत्यक्षं च परोक्षं च । अथ किं तत् प्रत्यक्षम् ? प्रत्यक्षं द्विविधं प्रज्ञप्तम् ) तद्यथा - इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org