________________
सूत्रं ११ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
७३
अवग्रहेहयोर निश्चितत्वान्न समस्ति प्रमाणम् । स चापायः सद्द्रव्यानुगतो यदि न भवति तन्मिथ्यादृष्टेरिवाशुद्धदलिककलुषितः, अतो योऽपायः सद्द्रव्यानुप्रामाण्यम् वर्ती स प्रमाणं मतिभेदः । यदा तर्हि दर्शनसप्तकं क्षीणं भवति तदा सद्रव्याभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य ? उच्यतेसद्द्रव्यतयेत्यनेनार्थत इदं कथ्यते - सम्यग्दृष्टेर्योऽपायांश इति । भवति चासौ सम्यग्रदृष्टेपायः । अथवा एकशेषोऽत्र द्रष्टव्यः, अपायश्चापायश्चापायौ सद्द्रव्यं अपायसद्द्रव्ये परोक्षता च सद्द्रव्यं च सद्द्द्रव्ये अपायौ च सद्द्रव्ये चापायसद्द्रव्याणि तेषां भावस्तयेति । इदमुक्तं भवति - अपाय सद्द्रव्यानुगतो यः अक्षीणदर्शनसशकस्य स परिगृहीतः, एकेन अपायसद्द्रव्यशब्देन, तथा द्वितीयेनापायो यः सद्द्रव्यं शोभनं द्रव्यं, कश्चापायः सद्द्द्रव्यम् । यः क्षीणदर्शन सप्तकस्य भवति । एतेनैतदुक्तं भवति - सम्यग्दर्शनिनः क्षीणाक्षीणदर्शन सप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् । सविकल्पमिति निमित्तापेक्षत्वाद् धूमादग्निज्ञानवदिति, एवं श्रुतज्ञानस्याप्यपायांशः प्रमाणयितव्यः । सम्प्रति निमित्तापेक्षत्वादित्यस्य यो व्यभिचारः पुनः पुरस्तादवाचि तत्परिजिहीर्षयेदमाह-तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते इत्यनेन । तदिति मतिज्ञानम्, इन्द्रियाणि श्रोत्रादीनि अनिन्द्रियं मनः ओघज्ञानं च तानि निमित्तं - कारणं यस्य ज्ञानस्य तदिन्द्रियानिन्द्रिनिमित्तम्, न हीन्द्रियाण्यनिन्द्रियं च विरहय्य तस्य ज्ञानस्य सम्भवोऽस्तीति, ततश्च हेतुरेवंविधो ज्ञा(जा)तः - इन्द्रियानिन्द्रियनिमित्तत्वादिति । विशिष्टमेव निमित्तमिन्द्रियानिन्द्रियाख्यमुररीकृत्य निमित्तापेक्षत्वादिति मया प्रागभ्यधायि, नास्त्यतो व्यभिचारः । श्रुतज्ञानस्यापीन्द्रियानिन्द्रियनिमित्ततैव, किंतु अन्यथापि निमित्तं कथ्यते, तदाह- तत्पूर्वकत्वात् । तदिति मतिज्ञानं पूर्व-पूरकं पालकं यस्य तत् तत्पूर्वकं तद्भावस्तत्पूर्वकत्वं तस्मात् तत्पूर्वकत्वात् यावन्मतिस्तावत् तद् भवति, न त्वीदृश्यवस्थाऽस्ति यत्र तन्मतिज्ञानेन विना प्रादुःष्यात्, अतस्तन्मतिज्ञानं श्रुतज्ञानस्य पालकं भवतीतिकृत्वा मतिज्ञानमेव तस्यात्मलाभनिमित्तं भवति, तस्मिन् सति तस्य भवनात्, अतः श्रुतं मतिं निमित्तीकृत्य प्रवर्तमानमिन्द्रियानिन्द्रियनिमित्तं सत् कथं प्रत्यक्षव्यपदेशं लभेत ? श्रुतस्य परोक्षता तथा परोपदेशजत्वाच्च । श्रुतज्ञानं परोक्षं, परः - तीर्थकरादिस्तस्योपदेशः, उपदिश्यते उच्चार्यते इत्युपदेशः - शब्दस्तस्मात् परोपदेशात् - तीर्थकरादिशब्दश्रवणादुपजायते यत् तदिन्द्रियानिन्द्रियनिमित्तं श्रुतज्ञानं, तत्पूर्वकत्वात् परोपदेशादिति च, अनेन निमित्तभूयस्त्वं ख्यापितम् । यतः श्रुतज्ञानमुपजायमानं स्वतः ! प्रत्येकबुद्धादीनां मनसि सति मतिज्ञाने च सति समस्ति, अतो निमित्तद्वयमाश्रितं भवति । तथा यस्यापूर्वमेवेदानीं प्रादुरस्ति तस्य सति परोपदेशे सत्यां मतौ सत्सु चेन्द्रियानिन्द्रियेषूदेति, अतो निमि
१ श्रुतमति' इति क ख - पाठः । २ ' श्रितं च ' इति ख- पाठः ।
१० Jain Education International
For Private & Personal Use Only
www.jainelibrary.org