________________
७२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ सूत्रम्-आद्ये परोक्षम् ॥ १-११ ॥ भा०-आदौ भवमाद्यम् । सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति, तदेवमाछ-मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः। कुतः । निमित्तापेक्षत्वात् अपायसद्व्यतया मतिज्ञानम् । तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते। तत्पूर्वकत्वात् परोपदेशजत्वाच्च श्रुतज्ञानम् ॥११॥
टी०-सूत्रोपात्ताधशब्दार्थोऽन्यथाऽवगमयितुं न शक्यते परस्मायित्यतो व्युत्पत्याहआदौ भवमाद्यम्, यस्मात् परमस्ति न पूर्वमादिः सः विवक्षावशात्, तत्र भवं, दिगादित्वाद्यत, आद्यं चायं चेत्याचे इति, प्रतिविशिष्टेन च क्रमेण व्यवस्थितानां आद्यव्यपदेशो दृश्यते, तद्यथा-अयं यतिरेषां विशिष्टक्रममाजामाद्य इति । एवमत्रामूतोनां ज्ञानानां क्रमसन्निवेशो दुरुपपाद इति मत्त्वा ब्रवीति-आद्ये इति, सूत्रक्रमप्रामाण्यात् , सूत्रं चासनमप्यनन्तरं त्यज्यते, तत् प्रमाणे (१-१०) इति सनिवेशाभावात्, तस्मात् परमेव मतिश्रुतादि ग्राह्यम् , तत्र क्रमः-परिपाटी, सूत्रे क्रमः सूत्रक्रमः, तस्य प्रामाण्यम्-आश्रयणं तस्मात् । प्रथमद्वितीये मतिश्रुते, शास्तीति च ग्रन्थकार एव द्विधा आत्मानं विभज्य सूत्रकारभाष्यकाराकारेणैवमाह-शास्तीति, सूत्रकार इति शेषः। अथवा पयोयभेदात् पयोयिणो
भेद इत्यन्यः सूत्रकारपर्यायोऽन्यश्च भाष्यकारपर्याय इत्यतः सूत्रकारपरोक्षप्रमाणम् पर्यायः शास्तीति । तदेवमाद्यव्यपदेशे सिद्धे सुखेन वक्तुं शक्यते,
किमिति चेत्, उच्यते-मतिज्ञानश्रुतज्ञाने द्वे अपि परोक्षं प्रमाणं भवतः, शेषमनूद्य परोक्षप्रमाणता विधीयते । कुत इति च प्रश्नयितुरयमभिप्रायः-यमयं हेतुमुपन्यसिष्यति वक्ष्यमाणं तत्रास्य व्यभिचारं दर्शयिष्यामीति, इतरोऽपि सविशेषणं हेतुं बुद्धौ न्यस्याह-निमित्तापेक्षत्वादिति। धृमादग्निज्ञानं परोक्षमुपजायते निमित्तापेक्षं, तद्वन्मतिश्रुते, इन्द्रियानिन्द्रियनिमित्तभावः स्पष्टो मतेः, श्रुतस्य च । न च निमित्तापेक्षिता अनैकान्तिकी, कथं तवधिज्ञानादित्रयं निमित्तमपेक्षते १ यतोऽवधिरान्तरनिमित्तं क्षयोपशममालम्ब्य बहिरङ्गं च विषयमुत्पद्यते, तथा मनःपर्यायज्ञानमपि, केवलज्ञानमपि कर्मणां ज्ञानावृतां समस्तक्षयमाश्रित्य विषयं चोत्पद्यत इति ?। उच्यते-इतरः सविशेषणोऽयं हेतुरित्याहअपायसदद्रव्येत्यादि । अनेन च प्रतिज्ञार्थं विशिष्यापायसद्व्येत्यादिना ततो हेतुं सविशेषणं करिष्यति तदिन्द्रियानीत्यादिना। यन्मतिज्ञानं धर्मितयोपात्तं तत् कीदृशं, परोक्षं प्रमाणं वा साध्यते ? । उच्यते-अपायसवव्यतया मतिज्ञानं धर्मित्वेनोपन्यस्तम्, अपायो निश्चय ईहानन्तरवर्ती । सद्व्यमिति, शोभनानि द्रव्याणि-सम्यक्त्वदलिकानि, अपायश्च सद्व्याणि च तेषां भावः-स्वरूपादप्रच्युतिः, तयेत्थंभूतया मतिज्ञानं धर्मि । एतदुक्तं भवति-मतिज्ञानस्यावग्रहादिभेदस्य मध्ये योऽपायोंऽशस्तन्मतिज्ञानं परोक्षं प्रमाणमिति ।
१ ' शेषः ' इति क-पाठः । २ 'प्रतिज्ञानार्थ ' इति ख-पाठः । ३ 'वा' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org