________________
सूत्रं १०]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-तच्छब्द एतदित्यस्यार्थे, पञ्चविधमपि मत्यादिज्ञानं द्वे प्रमाणे भवत इत्येतदत्र विधीयमानं, द्वे एव प्रमाणे भवतः, नान्यत् प्रमाणमस्ति ।। ननु चान्यैरनेकधा कल्पितं, कथं पुनरवधियते द्वे एवेति ?। उच्यते-अन्येषामत्रैवान्तर्भावात् प्रमाणान्तरत्वं निवार्यते, न प्रमाणत्वम् । कानिचिच्च नैव प्रमाणानि, एतच्च द्वयमुत्तरत्र भाष्यकार एव दर्शयिष्यति । अथ द्वे प्रत्यक्षानुमाने इत्येवं द्वयं ग्राह्यमुतान्यथेत्याह-एवं चान्यथेति च दर्शयति, 'परोक्षं प्रत्यक्ष चेति प्रत्यक्षमित्येवं परोक्षमिति च अन्यथा, परोक्षं चासाद् अनुमानमिति नोक्तं, सिद्धान्ते परोक्षमित्युपन्यासात् । "तं समासओ दुविहं पन्नत्तं, तंजहा-पच्चक्खं परोक्खं च (नन्दीसूत्रे सू० २)"इति । परैः इन्द्रियैरुक्षा-सम्बन्धो यस्य ज्ञानस्य तत् परोक्षं ज्ञानम् । एतदुक्तं भवतिइन्द्रियनिमित्तैः सद्भिर्यज्ज्ञानमात्मनि सम्बन्धमनुयाति तत् परोक्षं-मतिश्रुतरूपम् । यत् पुनरिन्द्रियादिनिरपेक्षमात्मन एवोपजायते तत् प्रत्यक्षम्, द्विविधेऽपि प्रत्यक्षपरोक्षे ज्ञाने यः साकारांशः स प्रमाणव्यपदेशमश्रुते, यथाभिहितम्
___ "साकारः प्रत्ययः सर्वो, विमुक्तः संशयादिना ।
साकारार्थपरिच्छेदात्, प्रमाणं तन्मनीषिणाम् ॥" इति, साकारांशस्य प्रमाणताऽवसेयेति । प्रमीयतेऽनेनेति प्रमाणम् , मीयतेऽनेनेति मानं,
परिनिष्पन्नेन मानशब्देन सह प्रशब्दस्योपपदसमासः, प्रगतं प्रकृष्टं मानं प्रमाणस्य.
प्रमाणम् , प्रमेयपरिच्छेदार्थिनः प्रमातुस्तत्परिच्छेदसिद्धिप्रधानाङ्गमशब्दार्थः
तिशयोपकारित्वात् प्रकृष्टं मानं प्रमाणम् । वाक्यज्ञानद्वैविध्यात् द्विविधं, प्रत्यक्षपरोक्षभेदाद् वा । अथवा सर्वमेव ज्ञानं प्रत्यक्षं मनइन्द्रियजीवेष्वक्षशब्दस्य रूढत्वात्,सावरणानावरणविशेषात् तु भिद्यते । सावरणानां तावत् त्रितयाभिमुख्येनामदादीनां प्रत्यक्षमेव ज्ञानम्, तद्यथा-आत्माभिमुख्येन स्वप्ने भयहर्षरोगगमनराज्यलाभादि, मनआभिमुख्येन स्मरणप्रत्यभिज्ञानवितर्कविपर्ययनिर्धारणादि, इन्द्रियाभिमुख्याचक्षुरादिविषयं रूपादिवत्, निरावरणानामात्माभिमुख्येनैव, अभ्यात्मं तु स्वयंशांप्रत्यक्षज्ञानिनां, विशुद्धशब्दनयाभिप्रायेण चेदमेकमेव प्रत्यक्षं प्रमाणमिति ॥ आचार्यसिद्धसेनोऽप्याह
" अभित्रि मादृशां भाज्यमभ्यात्मं तु स्वयंदृशाम् ।
__एकं प्रमाणमर्थै क्या-दैक्यं तल्लक्षणैक्यतः ॥" प्रमाण-द्वात्रिंशिकायाम् अर्थैक्यं कुतः १ । तल्लक्षणैकत्वात् अर्यते-गम्यते परिच्छिद्यत इति । अथवा प्रमातव्यं प्रमेयं प्रमातुमीप्सिततमं प्रमाणार्ह वा कर्मसाधनत्वानतिक्रमादेकलक्षणत्वम् ॥ १० ॥
अयमिदानीं विवेको नावधृतः पञ्चविधस्य मध्ये-किं परोक्षं किं वा प्रत्यक्षमिति, तद्विवेकावधारणाय आह
१ तत् समासतो द्विविधं प्रज्ञप्तं, तद्यथा-प्रत्यक्षं च परोक्षे च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org