________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ उच्यते-शब्दमाकर्णयतो भाषमाणस्य पुस्तकादिन्यस्तं वा चक्षुषा पश्यतः घ्राणादिभिर्वा अक्षराणि उपलभमानस्य यद् विज्ञानं तत् श्रुतमुच्यते, तेन ज्ञानं विशेष्यते, श्रुतं च तज्ज्ञानं चेति श्रुतज्ञानम् । अवधिज्ञानमिति । अवशब्दोऽधःशब्दार्थः, अवधानादवधिः, ज्ञानपरिच्छेदः । एतदुक्तं भवति-अधोविस्तृतविषयमनुत्तरोपपादिकादीनां ज्ञानमवधिज्ञानम्, यतो बहुत्वं च विषयस्योररीकृत्यैवं व्युत्पत्तिः, अन्यथा तिर्यगूज़ वा विषयं परिच्छिन्दानस्यावधिव्यपदेशो न स्यात् । अथवा अवधिः-मर्यादा, अमूर्तद्रव्यपरिहारेण मृर्तिनिबन्धनत्वादेव तस्यावधिज्ञानत्वम् । तच्च चतसृष्वपि गतिषु जन्तूनां वर्तमानानामिन्द्रियनिरपेक्षं मन:प्रणिधानवीर्यकं प्रति विशिष्टक्षयोपशमनिमित्तं पुद्गलपरिच्छेदि देवमनुष्यतिर्यङ्नारकस्वामिकमवधिज्ञानमिति । अवधिश्च स तज्ज्ञानं च तदित्यवधिज्ञानम् । मनःपर्यायज्ञानमिति । मनो द्विविधं-द्रव्यमनो भावमनश्च, तत्र द्रव्यमनो मनोवर्गणा, भावमनस्तु ता एव वर्गणा जीवेन गृहीताः सत्यो मन्यमानाश्चिन्त्यमाना भावमनोऽभिधीयते । तत्रेह भावमनः परिगृह्यते, तस्य भावमनसः पर्यायास्ते चैवंविधाः-यदा कश्चिदेवं चिन्तयेत् किंस्वभाव आत्मा ? ज्ञानस्वभावोऽमूर्तः कर्ता सुखादीनामनुभविता इत्यादयो ज्ञेयविषयाध्यवसायाः परगतास्तेषु यज्ज्ञानं तेषां वा यज्ज्ञानं तन्मनःपर्यायज्ञानम् । तानेव मनःपर्यायान् परमार्थतः समवबुध्यते, बाह्यांस्त्वनुमानादेवेत्यसौ तन्मनःपर्यायज्ञानम् । केवलज्ञानमिति । केवलं-सम्पूर्णज्ञेयं तस्य तस्मिन् वा सकलज्ञेये यज्ज्ञानं तत् केवलज्ञानम् , सर्वद्रव्यभावपरिच्छेदीतियावत् । अथवा केवलं एकं मत्यादिज्ञानरहितमात्यन्तिकज्ञानावरणक्षयप्रभवं केवलज्ञानं अविद्यमानस्वप्रभेदम् । विशुद्धिप्रकर्षापेक्षा चैषामानुपूर्वीविन्यासविरचनेति, इतिरियत्तायां, एतावदेव नान्यदस्तीति । एतत् इत्यवयवप्रविभागेन यदाख्यातं, मूलम्-आद्यं विधान-भेदः, मूलं च तद्विधानं च मूलविधानं, मूल विधानेन-मूलविधानतः, पञ्चविधं मत्यादिज्ञेयपरिच्छेदि ज्ञानम् । एतदुक्तं भवति-मौलान् भेदानङ्गीकृत्य पञ्चविधमेव भवति । अथ किमन्ये एषां पञ्चानांप्रभेदाः सन्ति उत नेति ? । सन्तीत्युच्यते-प्रभेदास्त्वस्येत्यादि। प्रभेदाः-अंशा अवयवाः अस्यपञ्चविधस्योपरिष्टाद् वक्ष्यन्ते, मूलभेदास्तु न, कथितत्वादिति । मतिज्ञानस्यावग्रहादयः श्रुतस्याङ्गानङ्गप्रविष्टादयः, अवधिज्ञानस्य भवप्रत्ययादयः, मनःपर्यायज्ञानस्य ऋजुमत्यादयः, केवलज्ञानस्य तु न सन्त्येव ॥९॥ अथ पुरस्तात् प्रमाणनयैरधिगम इत्युक्तं, तत्र न ज्ञायते किं प्रमाणमित्यत आह
सूत्रम्-तत् प्रमाणे ॥ १-१०॥ टी०-तत् प्रमाणे इति । अथवाऽन्यैरनेकधा प्रमाणमभ्युपेतं, कापिलैत्रिधा प्रत्यक्षानु__ मानागमभेदात्, अक्षपादेन चत्वारि सहोपमानेन, मीमांसकैः षडर्था
पत्त्यभावाभ्यां सह, मायासूनवीयैर्ते प्रत्यक्षानुमाने, काणभुजैश्च द्वे संख्या
त्रीणि वा दर्शनभेदात्, भवतां कथमित्यत आहभा०—तदेतत् पञ्चविधमपि ज्ञानं हे प्रमाणे भवतः परोक्षं प्रत्यक्षं च ॥१०॥
प्रमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org