________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ .. टी०-मतिज्ञानं स्मृतिज्ञानमित्यादि । येयं मतिः सैव ज्ञानमित्यस्य ख्यापनार्थ
मननं मतिस्तदेव ज्ञानं मतिज्ञानमिति । मतिज्ञानं नाम यदिन्द्रियामतेः पर्याया। निन्द्रियनिमित्तं वर्तमानकालविषयपरिच्छेदि । स्मरणं स्मृतिः सैव ज्ञानं
स्मृतिज्ञानं, तैरेवेन्द्रियैर्यः परिच्छिन्नो विषयो रूपादिस्तं यत् कालान्तरेण विनष्टमपि स्मरति तत् स्मृतिज्ञानम् , अतीतवस्त्वालम्बनमेककतकं चैतन्यपरिणतिखभावं मनोज्ञानमितियावत् । संज्ञाज्ञानं नाम यत्तैरेवेन्द्रियैरनुभूतमर्थ प्राक पुनर्विलोक्य स एवायं यमहमद्राक्षं पूर्वाह्न इति संज्ञाज्ञानमेतत् । चिन्ताज्ञानमागामिनो वस्तुन एवं निष्पत्तिर्भवति अन्यथा नेति, यथैवं ज्ञानादित्रयसमन्विते तत्रैव परमसुखावाप्तिरन्यथा नेत्येतच्चिन्ताज्ञानं मनोज्ञानमेव । आभिनिबोधिकम् अभिमुखो निश्चितो यो विषयपरिच्छेदः सर्वैरेवैभिः प्रकारैस्तदाभिनिवोधिकमिति । यदा चैतल्लक्षणसूत्रं तदा इतिशब्द एवमित्यस्यार्थे, एवंलक्षणमेभिः पर्यायनिरूपितं मतिज्ञानं ज्ञेयमिति । एवमेतत् कियताऽप्यंशेन भेदं प्रतिपद्यमानमनर्थान्तरमिति व्यपदिशति । नैषां मतिज्ञानविरहितोऽर्थो विकल्पनीय इति । अपरे तु सर्वे पर्यायशब्दा एवैते शतक्रतुशक्रादिशब्दवदिति मन्यन्ते, नात्र भेदेनार्थः कल्पनीय इति । तथा चास्य सूत्रस्य पूर्वपक्षमन्यथा रचयन्ति, एवं-लोके स्मृतिज्ञानं अतीतार्थपरिच्छेदि सिद्धम् , संज्ञाज्ञानं वर्तमानार्थग्राहि, चिन्ताज्ञानमागामिकालविषयमिति, इह तु सिद्धान्ते आभिनियोधिकज्ञानमेवोच्यते, स्मृत्यादीनि तु नोच्यन्ते, तत्रानभिधाने प्रयोजनं वाच्यम् । उच्यतेआभिनिबोधिकज्ञानस्यैव त्रिकालविषयस्यैते पर्याया नार्थान्तरतेति मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यस्यानान्तरमेतदिति ॥१३॥
इह हि प्रतिक्षणं प्राणिनांमन्यदन्यच्च ज्ञानमुदेति, घटालम्बनज्ञानापगतौ पटालम्बनज्ञानाविर्भावः, यच्चोत्पद्यते तत्कारणायत्तजन्म वदन्ति सन्तः-यथा घटः पुरुषमृत्तिकादण्डाद्यपेक्ष्य कारणमाविरस्ति, एवमस्य ज्ञानस्य समुपजायमानस्य किं निमित्तमिति ?। उच्यते
सूत्रम्-तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १-१४ ॥ भा०-तदेतत् मतिज्ञानं द्विविधं भवति-इन्द्रियानिमित्तमनिन्द्रियनिमित्तं च ।
टी०-तदेतदित्यनन्तरलक्षणोपेतं मतिज्ञानं किंनिमित्तमिति ? । उच्यते-हेतोविध्यात द्विविधं भवति, तेनैव हेतुना द्विविधेन तत्कार्यमादर्शयति-इन्द्रियनिमित्तमनि
न्द्रियनिमित्तं च । तत्रेन्द्रियाणि-स्पर्शनादीनि पञ्च निमित्तं यस्य तदिमतेः कारणानि न्द्रियनिमित्तम्, नहि श्रोत्रेन्द्रियमन्तरेणायं प्रत्ययो भवति शब्दोऽयमिति,
न च स्पर्शनमन्तरेणायं प्रत्ययः समुत्पद्यते-शीतोऽयमुष्णो वा, एवं शेषेष्वपि वाच्यम् । तथानिन्द्रियनिमित्तमिति इन्द्रियादन्यदनिन्द्रियं-मनः ओघश्चेति तत्
'प्राणिनामन्यच्च ' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org