________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ भा०-स्पर्शनम् । सम्यग्दर्शनेन किं स्पृष्टम् ?। लोकस्यासङ्ख्येयभागः, अष्टौ चतुर्दशभागा देशोनाः, सम्यग्दृष्टिना तु सर्वलोक इति॥ अत्राह-सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति ?। उच्यते-अपायसद्व्यतया सम्यग्दर्शनम् , अपायः-आभिनिबोधिकम् , तद्योगात् सम्यग्दर्शनम् । तत् केवलिनो नास्ति । तस्मात् न केवली सम्य दर्शनी, सम्यग्दृष्टिस्तु भवति ॥ ___टी-स्पर्शनम् । आकाशप्रदेशैः पर्यन्तवर्तिभिः सह यः स्पर्शस्तत् स्पर्शनम् , अस्मिन् द्वारे पृच्छयते-सम्यग्दर्शनेन किं स्पृष्टम् इत्यनेन । अत्रापि सम्यग्दर्शनशब्दः सामान्यवाची दृश्यः, एकं चाङ्गीकृत्य प्रवृत्त इति मन्तव्यम् , उत्तरम्-लोकस्यासङ्ख्ययभागः; स्पृष्ट इत्येकानेकप्रश्नानुरोधेन नेयम् । यः पुनः समुद्घातप्रतिपन्नः चतुर्थसमयवर्ती भवस्थकेवली तेन किं स्पृष्टं लोकस्येति ?। उच्यते-सम्यग्दृष्टिना तु सर्वलोक इति । यतोऽभिहितं "लोकव्यापी चतुर्थे तु" (प्रशम-रतो)। तुशब्दोऽवधारणे, सम्यग्दृष्टिनैव समुद्घातगतेनैव समस्तलोकः छुप्यत इति । एतस्मिन् व्याख्याने चोदकोऽचूचुदत्-सम्यग्दृष्टिसम्यग्दर्शनशब्दयोयुत्पत्तौ क्रियमाणायां भावे कारके नास्त्यर्थभेद इति, भवांश्चाह सम्यग्दर्शनेन लोकासंख्येयभागः स्पृष्टः, सम्यग्दृष्टिना तु सर्वलोक इति, तन्नूनं भवता कश्चिदर्थभेदः परिकल्पित इति, अतः प्रश्नेनोपक्रमते-सम्यग्दृष्टिसम्यग्दर्शनयोः को विशेष इति ? । सरिराह-अत्रोच्यतेअपायसद्व्येत्यादि । अपायो-निश्चयज्ञानं मतिज्ञानांशः, सद्व्याणि पुनः शोभनानि प्रशस्तत्वात् विद्यमानानि वा द्रव्याणि मिथ्यादर्शनदलिकानि अध्यवसायविशोधितानि सम्यग्दर्शनतया आपादितपरिणामानि, अपायश्च सद्व्याणि च अपायसदद्रव्याणि तेषां भावः अपायसदद्रव्यता, इत्थंभूतलक्षणा तृतीया, यावत् सोऽपायः सम्भवति यावद् वा तानि सम्भवन्तीत्येषाऽपायसद्व्यता तया सम्यग्दर्शनम्। अपाययुक्तानि सद्रव्याणीति विनाशाशङ्कानिराचिकीर्षया सुहृद भूत्वा मूरिराचष्टे-अपायः-आभिनिबोधिकम् , तृतीयो भेदः आभिनियोधिकस्य निश्चयात्मकः प्रसिद्धः तेन योगस्तद्योगः तस्मात् तेनापायेन योग इति वोच्यते, यतः सम्यग्दर्शनपुद्गलेषु सत्सु चापगतेषु च भवतीति, व्यापी स इत्यर्थः, तद्योगात् सम्यग्दर्शनम् , एतेनापायेन यावदस्ति सम्बन्ध इति, तेन च सम्बन्धः(धे) सत्सु च सद्रव्येष्वक्षीणदर्शनसप्तकस्यासत्सु च सद्व्येषु क्षीणदर्शनसप्तकस्य, उभय्यामप्यवस्थायां सम्यग्दर्शनं द्रष्टव्यम् । उभय्यामप्यवस्थायां सम्यग्दृष्टिव्यपदेशो नास्ति । तत् केवलिनो नास्तीत्यादि। तदिति सम्यग्दर्शनं सद्द्रव्यापाययोगजनितव्यपदेशं केवलिनोऽतीन्द्रियदर्शित्वात् न समस्ति । अतो न सम्यग्दर्शनी केवली । कस्तर्हि ? आह-सम्यग्दृष्टिस्तु केवलीति । तानि च बुद्धया आदाय अपायसद्द्रव्याणि तत्र केवलिनि सम्यग्दर्शनिव्यपदेशो निषिध्यते । तैस्तु विना यदि सम्यग्दर्शनिव्यपदेशः कल्प्यते भावसाधनोऽर्थो विशिष्ट इतिकृत्वा तदा नास्ति निषेध इति । तुशब्दोऽमुमेवार्थमवद्योतयति । एवं च कृत्वा पूर्वप्रश्नेष्वपि सुघट भाष्यं भवति ॥ द्वारान्तरं छुपति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org