________________
सूत्रं ८] स्वोपज्ञभाष्य-टीकालङ्कृतम्
६७ भा०-कालः। सम्यग्दर्शनं कियन्तं कालमिति। अत्रोच्यते-तदेकजीवेन नानाजीवैश्च परीक्ष्यम् । तद्यथा-एकजीवं प्रति जघन्येनान्तर्मुहर्तम् , उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि, नानाजीवान् प्राति सर्वाद्धा॥
टी०–काल इति । यदेतत् पूर्वकैद्वारैर्निरूपितं तत् सम्यग्दर्शनं कियन्तं कालं भवतीति प्रश्नयति ॥ ननु च स्थितिद्वारेऽप्येतदेव पृष्टमुक्तं च, किमर्थं च पुनः पिष्टपेषणं क्रियते इति ? । उच्यते-न कालः स्थितिमन्तरेण कश्चिदस्तीत्यस्यार्थस्य ख्यापनार्थ, तथा च वर्तमानादीन्येव काललिङ्गानि पठन्ति । अथवा एकजीवाश्रयणेन नानाजीवसमाश्रयणेन चास्ति स्थितिद्वारे साक्षाद् विधानमिति, अतो युज्यते प्रश्नः। तथा च "पुव्वभणियं तुज भण्णएं" (निशीथ-भाष्ये) इत्यादि। अतस्तत् सम्यग्दर्शनमेकजीवाङ्गीकरणेन सर्वजीवाङ्गीकरणेन च परीक्ष्यम् । एतदुक्तं भवति-एकेन प्राप्तं तत् कियन्तं कालमनुपाल्यत इति, नानाजीवैश्च कियन्तं कालं धार्यत इति परीक्ष्यम् । एकजीवं प्रतीत्यादि, पूर्वभावित एव ग्रन्थ इति, स्थितिद्वारे नानाजीवान् प्रति सवाद्वा-सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदांत् । इयं तु स्थितिः क्षायोपशमिकस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्तप्रमाणेति, क्षायिकस्य तु सर्वदावस्थानम् ॥ अतोऽनन्तरमन्तरद्वारं स्पृशति
भा०-अन्तरम् । सम्यग्दर्शनस्य को विरहकाल: । एकजीवं प्रति जघन्येनान्तर्मुहूर्तम् , उत्कृष्टेन उपार्धपुद्गलपरिवर्तः । नानाजीवान् प्रति नास्त्यन्तरम् ।
टी०–अन्तरमित्यनेन सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति पृच्छति-सम्यग्दर्शनस्य को विरहकाल इति ?। सम्यग्दर्शनं प्राप्य पुनश्चोज्झित्वा पुनर्यावन सम्यग्दर्शनमासादयति स विरहकाल:-सम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्चित्य निर्णयवाक्यं प्रवृत्तम् । एकजीवं प्रतीत्यादि । एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उजझित्वा पुनः कश्चिन् मुहूर्तस्यान्तर(रेव) लभते,कश्चित् तु अनन्तेन कालेन लभते, से चान्तरकाल एवमाख्यायते, उत्कृष्टेनोपार्धपुद्गलपरावर्तः, पुद्गलपरावर्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया
. सर्वे परिभुक्ता भवन्ति, स पुद्गलपरावर्तः औदारिकवैक्रियतैजसभाषाप्रापुद्गलपरावर्त
___णापानमनःकर्मभेदात् सप्तधा, एतत्समुदायस्यार्धं गृह्यते किश्चिदूनम् ।
एतत् कथं प्रतिपादयितुं शक्यत इति चेत्, उपाधपुद्गलपरावर्त इत्यनेनोच्यते 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्त' इति न्यायात् । अयं चार्ध
स्यार्थ।
१ 'परीक्ष्यन्ते' इति क-ख-पाठः। २ पूर्वभणितं तु यद् भव्यते। ३ 'व्यवच्छेदास्ता यत्' इति ख-ग-पाठः । ४ 'सचानन्तरं काल' इति क-ख-पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org