________________
सूत्र ८]
स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-सङ्ख्या। कियत् सम्यग्दशनम् । किं सङ्ख्येयमसङ्ख्येयमनन्तमिति ? । उच्यते-असङ्ख्ययानि सम्यग्दर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः ॥ टी०-सङ्ख्येति। सङ्ख्या इयत्ता, सा चैका गणितव्यवहारानुवर्तिनी द्वयादिका
शीर्षप्रहेलिकान्ता गणितविषयातीता च, असंख्येया जघन्यमध्यमोत्कृष्टसङ्ख्ययादि
३. संज्ञिता, अपरा तदतिक्रमेण व्यवस्थिता अनन्ता, साऽपि जघन्यादिसङ्ख्यास्वरूपम। भेदत्रयानुगता अनुयोगद्वाराद(सू० १४९)विस्तरार्थिनाऽधिशमनीया ।
य एते सम्यग्दर्शनसमन्विताः सत्त्वा गत्यादिषु ते कियन्त इति तद्वन्त इह पृच्छयन्ते। उक्तं चेदं पुरस्तात् , ततः पृच्छति-कियत् सम्यग्दर्शनं-किंपरिमाणास्ते सम्यग्दशेनिन इत्यर्थः, स्वयमेवोद्घट्टयति सङ्ख्याभिज्ञः सन्-किं सङ्ख्येयं सम्यग्दर्शनराशिमभ्युपगच्छामः, उतासङ्ख्येयं, उतानन्तमिति । एवं पृष्टे आह-उच्यते-असङ्ख्येयानि सम्यग्दर्शनानि, न सङ्ख्येया नाप्यनन्ताः, किं तर्हि ? असङ्ख्येयाः सम्यग्दर्शनिन इति । क्षयसम्यग्दृष्टीन् सिद्धान् केवलिनश्च विरहय्य शेषाः संसारवर्तिनो यावन्तः क्षयादिसम्यग्दर्शनिनस्ते निर्दिश्यन्ते असंख्येयानि सम्यग्दर्शनानीत्यनेन । ये तर्हि केवलिनः सिद्धाश्च ते सर्वे कियन्त इत्याह-सम्यग्दृष्टयस्त्वनन्ताः । भवस्थकेवलिनः सिद्धांश्वाङ्गीकृत्योक्तं सम्यग्दृष्टयस्त्वनन्ता इति ॥ द्वारान्तरस्पर्शनेनाह
भा०-क्षेत्रम् । सम्यग्दर्शनं कियति क्षेत्रे ?। लोकस्यासङ्ख्ययभागे॥
टी-क्षेत्रम्। क्षियन्ति-निवसन्ति यत्र जीवादिद्रव्याणि तत् क्षेत्रम्-आकाशम् , यत एतेऽसङ्ख्येयतया निर्धारिता अनन्ततया च, एभिः पुनः क्रियदाकाशं व्याप्तमिति संशये सति पृच्छति-सम्यग्दर्शनं कियति क्षेत्रे ?॥ ननु च सम्यग्दर्शनमेतेन पृच्छयते निर्णयोऽपि तस्यैव, सम्यग्दृष्टयस्तु न चोद्यन्ते न निर्णीयन्त इति । उच्यते-इहायं सम्यग्दर्शनशब्दो भावसाधनः सम्यग्दृष्टिसम्यग्दर्शनसमवायी उभयोर्वाचकोऽभ्युपगन्तव्यः, अपायसदद्रव्यसम्यग्दर्शनिनस्तद्वियुतस्य च सिद्धभवस्थकेवल्याख्यस्य, निर्णयवाक्येऽप्येवमेव दृश्यम्, अथवा सम्यग्दर्शनिषु निर्मातेषु सम्यग्दृष्टयोऽप्यनेनैव रूपेण ग्रहीष्यन्त इति सम्यग्दर्शनिनः प्रश्नयति, अथवा एकं जीवमुद्दिश्यायं प्रावृतत् प्रश्नः, एकत्रावधृते क्षेत्रेऽन्यत्राप्यनुमानात् तत् तथा प्रतिपत्स्येऽहमिति पृच्छति-सम्यग्दर्शनं कियति क्षेत्रे इति । एकस्मिँश्च पृच्छयमाने सम्यग्दर्शने कियति क्षेत्रे इत्येकवचनमपि सुघटं भवति । मुरिराह-लोकस्यासङ्ख्ययभागे इति । यदैकः पृष्टः एकस्यैवोत्तरं तदा कोऽर्थः ? योऽहं सम्यग्दर्शनी सोऽहं कियति क्षेत्रे-आधारे स्थितः ? पृष्टे उत्तरं-लोकस्यासङ्ख्येयभागे, धर्माधर्मद्रव्यद्वयपरिच्छिन्नः आकाशदेशो जीवाजीवाधारक्षेत्रं लोकः, तस्यासङ्ख्येयभागे त्वं स्थितः, यतः असङ्ख्येयप्रदेशो जीवः अतोऽसङ्ख्येयभाग एवावगाहते सर्वस्य लोकस्य, बुद्धया असङ्ख्येयभागखण्डकल्पितस्य य एकोऽसङ्ख्येयभागस्तत्र स्थित इति । अथापि सर्वानेवाङ्गीकृत्य प्रश्नः तथाप्यसङ्ख्येयभागे पूर्वसादधिकतरे लोकस्य सर्वे वर्तन्त इति युक्तमुत्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org