SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६२ तार्थाधिगमसूत्रम् [ अध्यायः १ भ्युपगतम्, तदभ्युपगमे च ज्ञानत्वं सम्यग्दर्शनस्य सुप्रतिपाद्यम् । तथा दर्शनमोहनीयस्येति ब्रुवता इदमभ्युपगतम् - दर्शन मोहनीयस्य क्षयादिषु सत्सु तत्प्रादुर्भावो न पुनर्दर्शन मोहस्तदावरणमित्येतद् भावितमेव पुरस्तात् । ग्रन्थकारस्याप्ययमेवाभिप्रायः पुनरुद्घट्टित इति । तथा इति । एभ्यो हेतुभ्यो यत् कार्यमुपजातं तत् प्रदर्श्यते -क्षयसम्यग्दर्शनमिति । मत्याद्यावरणीयदर्शन मोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते तेषामेवोपशमाज्जातं उपशमसम्यग्दर्शनमुच्यते, तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति चनाभिज्ञाः । एषां च क्षयादीनां प्राग्भावना कृतैव, इह केवलं तदावरणीयेषु लगनीया इति । एवं क्षयादिहेतुकं यत् कार्यमुपाजनि तत् प्रदर्श्याधुना एतत् पृच्छयते - किमेकरूपाण्येवैतानि उतास्ति कश्चित् प्रकर्ष एषामिति ? । उच्यते - अत्र चेत्यादि । अत्रेति एषु क्षयादिसम्यग्दर्शनेषु यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतच्चशब्दः । तं च प्रकर्षं दर्शयन्नाह - औपशमिकेत्यादि । पूर्वं च क्षयसम्यग्दर्शनं प्रधानत्वादुपन्यस्येदानीं प्रकर्षस्य निदर्श्यत्वादन्ते तदुपन्यस्यति । उपशमेन-उदयविघातरूपेण निर्वृत्तमौपशमिकं, क्षयेण - उपरिशाटरूपेणोपशमेन च निर्वृत्तं क्षायोपशमिकम्, क्षयेण निर्वृत्तं क्षायिकम्, अत एषामौपशमिकादीनामिमां रचनामाश्रित्य परस्य परस्य विशुद्धिप्रकर्षो निर्मलता स्वच्छता तच्चपरिच्छेदितेत्यर्थः । औपशमिकं हि सम्यग्दर्शनं सर्वमलीमसम्, अल्पकालत्वात् भूयश्च मिथ्यात्वगमनात्, यतोऽन्तर्मुहूर्तमात्रं भवेत्, यदि च कालं तत्रस्थो न करोति एवं सति मिथ्यादर्शनमेव प्रतिपद्यत इत्यागमः । तस्माच्चौपशमिकतः क्षायोपशमिकसम्यग्दर्शनं विशुद्धतरम्, बहुकालावस्थायित्वात्, यत उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि तदुक्तम्, अत एव च तस्य वस्तुपरिच्छेदे स्पष्टं ग्रहणसामर्थ्यमनुमातव्यमागमाच्चास्मात्, ततश्च क्षायिकं विशुद्धतमम्, सर्वकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति ॥ ७ ॥ " किं चान्यदित्युत्तरसूत्रसम्बन्धवाक्यं, न केवलमेभिरेवैभिश्च निश्चयः कार्य इति, कैरिति चेदित्यत आहसूत्रम् - सत्सङ्ख्या क्षेत्रस्पर्शन कालान्तरभावात्पबहुत्वैव ॥१-८॥ टी० - सत्सङ्ख्येत्यादि । सच्छब्दं च सङ्ख्यादिविशेषणं कश्चिदाश्रयेदित्यतो निराकरणार्थं विविच्य दर्शयति भा० - सत्, सङ्ख्या, क्षेत्रं, स्पर्शनं, कालः, अन्तरं, भावः, अल्पबहुत्वमित्येतैश्च सद्भूतपप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति । कथमिति चेत्, उच्यते - सत्, सम्यग्दर्शनं किमस्ति नास्ति ? अस्तीत्युच्यते । क्वास्तीति चेत्, उच्यते-अजीवेषु तावन्नास्ति, जीवेषु १ ' तत्त्वानां ' इत्यधिकः क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy