________________
सूत्रं ८ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् तु भाज्यम् । तद्यथा-गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासंभवं सद्भूतप्ररूपणा कर्तव्या ॥
टी-सत् सङ्ख्या क्षेत्रमित्यादि युक्तमेवैतद् द्वारमिति । इतिशन्द इयत्तायाम् । इयद्भिरेव येऽन्ये तेऽत्रैवान्तर्भवन्ति, एतैश्च सूत्रोक्तैः । एतदेव विशेषयति-सभूतपदप्ररूपणादिभिः, सद्भूतस्य–विद्यमानार्थस्य सम्यग्दर्शनपदस्य प्ररूपणा-तत्त्वकथनं सा आदिर्येषां तानि सद्भूतपदप्ररूपणादीनि तैरिति विवेकेन फलं दर्शयति-अष्टाभिरिति । तेषां च व्याख्यानाङ्गतां कथयति-अनुयोगद्वारैरिति । सर्वभावानाम् इत्यनेनैषां व्यापितां कथयति-सदादीनां विकल्पश इत्यादि व्याख्यातमेव । कथमिति चेदित्यनेन पराभिप्रायमाशङ्कते-केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं मन्येथाः ? उच्यते-यथा क्रियते विस्तराधिगम इति, सदित्यनेनाद्यद्वारं परामृशति, कथं चैतस्य द्वारस्योत्थानं ? यथा शङ्कते परः-किमस्ति नास्तीत्येवम्, अन्यथा सत्त्वे निर्माते अयुक्तमेवैतत् कथनमिति, अत आशङ्कावाक्यं दर्शयति-सम्यग्दर्शनं किमस्ति नास्तीति । अस्माचार्य संशयः, यतः शब्दोऽसत्यपि बाह्येऽर्थे शशविषाणादिकः प्रवर्तमानो दृष्टः, सति च बाहिरङ्गेऽर्थे घटादौ दृष्टो घटादिः, अतः किं सत्यर्थे उतासति सम्यग्दर्शनशब्दः प्रवृत्तो बहिरर्थ इति प्रश्नयति । मूरिराह-अस्तीत्युच्यते । विद्यते सम्यग्दर्शनशब्दवाच्योऽर्थो घटादिशब्दवाच्यवत् । कथं चानेन निरचायि, आप्तोपदेशात् प्रशमसंवेगनिर्वेदाद्यनुमानाच्च । इतरेणाव्यक्ताभिधानवत् प्रतिपद्य पुनश्चोद्यते-क चैतदिति । गुणो ह्ययं तेन च परतन्त्रत्वात् साधिकरणेन भवितव्यम् रसेनेवाणुव्यापिनेत्येतदाशङ्कय पराभिप्रायमाचार्य आह-क्वास्तीति चेत् मन्यसे, उच्यते-द्वये पदार्थाः-जीवा अजीवाश्च । तत्राजीवेषु तावन्नास्ति, निश्चयावलम्बनेन धर्माधर्माकाशपुद्गलेषु, यतो ज्ञानाख्यश्चेतनावत्सु समवेतो गुणः स कथमन्यधर्मः सन्नन्यत्र वर्तते । यच्चोक्तं कस्येति स्वामित्वचिन्तायां अजीवस्य प्रतिमादेः सम्यग्दर्शनमिति तदुपचारात्, नत्वसो मुख्यः कल्पः । इह तु मुख्यां वृत्तिमशिश्रियद् वाचकमुख्यः, अजीवेषु तावदुक्तक्रमेण नास्तीति । अथ जीवेषु का वार्तेत्यत आह-जीवेषु तु भाज्यम् । तुशब्द एवकारार्थे भाज्यमेव, नावश्यम्भावि । सर्वेषु भजनां च कथयन्ति
तद्यथा-गतीन्द्रियेत्यादिना। गत्यादीनि चान्यत्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थं तु किञ्चिद् दयते-गत्यादिषु पूर्व प्रतिपन्नाः प्रतिपद्यमानाश्च सम्यक्त्वं चिन्त्यन्ते । तत्र नारकप्रभृतिषु गतिषु चतसृष्वपि पूर्व प्रतिपन्नाः प्रतिपद्यमानाच जीवाः सन्ति, नरकगतौ क्षायिकक्षायोपशमिके स्थातां, तिर्यग्गतावप्येते, मनुष्यगतौ त्रीण्यपि क्षायिकादीनि सन्ति, देवगतो
१'प्ररूपणादीनि ' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org