________________
सूत्रं ७]
स्वोपज्ञभाष्य टीकालङ्कृतम् सर्वकर्मवियुत इति । यतः सादिरप्यसौ रुचिर्न कदाचिदपैष्यतीति । सम्यग्दृष्टिः सादिरपर्यवसानैवेत्ययं स्त्रीलिङ्गनिर्देशः भवस्थकेवलिनः सयोगायोगस्य च सिद्धस्य च तस्या रुचेरनन्यत्वख्यापनार्थो, नासौ ततोऽन्य इति । अथवा सम्यग्दृष्टिः सादिरपर्यवसाना याभिहिता तामनुभवति सयोगादिरिति नेयम् ॥ सम्प्रति विधानद्वारं परामृशन्नाह
भा०-विधानम् । हेतुत्रैविध्यात् क्षयादि त्रिविधं सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहनीयस्य च क्षयादिभ्यः । तद्यथा-क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति । अत्र चौपशमिकक्षायोपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः ॥७॥ किं चान्यत् ॥ टी०-विधानमिति । विधीयते तदिति विधानं भेदः प्रकार इति ॥ ननु च साधनद्वा
रेऽभिहित एव भेदो निसर्गसम्यग्दर्शनम्, अधिगमसम्यग्दर्शनमिति च, साधन-विधान
विधान- किं पुनर्भेद आख्यायते ? । उच्यते-तत्र न सम्यग्दर्शनस्य भेदः प्रतिसंख्यानां परस्पर पिपादयिषितः, किन्तु निमित्तम् , तत्र क्षयादि यदुत्पत्तौ कारणतां प्रति
पद्यते तद्भेदो विवक्षितः, इह तु तेन निमित्तेन यत् कार्यमुपजनितं तस्य भेदः प्रतिपाद्यत इति, एवं च कृत्वा वक्ष्यमाणस्य सङख्याद्वारस्यास्य च विधानद्वारस्य स्पष्ट एवं भेदो निदर्शितः स्यात्। विधानं सम्यग्दर्शनस्य भेदकं, क्षयसम्यग्दर्शनम् उपशमसम्यग्दर्शनं क्षयोपशमसम्यग्दर्शनमिति । सङ्ख्याद्वारेषु तद्वतो भेदः प्रतिपाद्यते, कियत् सम्यग्दर्शनम् ? कियन्तः सम्यग्दर्शनिन इत्यर्थः । निर्णयवाक्येऽपि चासङ्ख्येयानि सम्यग्दर्शनानीत्यस्मिन्नसंख्येयाः सम्यग्दर्शनिन इत्यर्थः,मतुब्लोपादभेदोपचारात् अर्शआदिपाठाद्वा,तस्माद्युक्तं त्रयाणां साधनविधानसङ्ख्याद्वाराणां परस्परेण भेद इति । सम्प्रति भेदकथने प्रवर्तमान एकस्याश्च भेदरूपता रुचेरयुक्तरूपेति मन्यमानः कारणोपाधिकं भेदं दर्शयन्नाह हेतुत्रैविध्यात् क्षयादि त्रिविधमित्यादि । तिस्रो विधा यस्य स त्रिविधो हेतुः अन्यपदार्थः, त्रिविधस्य भावस्त्रैविध्यम्, हेतोस्वैविध्यं हेतुत्रैविध्यम्, तस्माद्धेतुत्रैविध्याद् वर्तमानसामीप्यादिवत् समासः । हेतुत्रैविध्यप्रदर्शनायाह-क्षयादि त्रिविधं सम्यग्दर्शनम् इति । कार्यनिर्देश एषः, न च त्रिभिः सम्भूयैकं जन्यते मृदुदकगोमयैरिवोपवेशनकं, किन्तु क्षयेणान्यैव रुचिरात्यन्तिकी सकलदोपरहिताऽऽविर्भाव्यते, क्षयोपशमेनापि चान्यादृश्येव, तथोपशमेनेति, अतस्त्रिविधं सम्यग्दर्शनम् । यत्कार्य क्षयादिहेतुभिः । के पुनस्ते हेतव इति ?। उच्यते-क्षयादयः, कस्य तेक्षयादयोऽत आह-तदावरणीयस्येत्यादि । तस्य-सम्यग्दर्शनस्य, आवरणीयम्-आच्छादकं शशलाञ्छनस्येवाभादि, तस्य चावरणीयं कर्म ज्ञानावरणीयं, मत्याद्यावरणीयमित्यर्थः। तस्य तदावरणीयस्य कर्मणः । तथा दर्शनमोहनीयस्य च इति, कस्येति चेत् ? उच्यते-अनन्तानुबन्ध्यादिदर्शनमोहनीयस्य चेति, अनन्तानुबन्ध्यादिदर्शनसप्तकस्य क्षयादिभ्य इति च-क्षयउपशमक्षयोपशमेभ्यो हेतुभ्यस्तदुपजायते, सम्यग्दर्शनावरणीयस्येति च त्रुवता ज्ञानावरणीयम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org