________________
५८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ ज्ञानम् , तदन्यत्र हि ज्ञानदर्शनावरणीयवर्जिते कर्मणि नावरणीयव्यवहारः प्राय इति । किं पुनस्तदावरणीयम् ? मतिज्ञानाद्यावरणीयम्, अनन्तानुवन्ध्यादि च निमित्ततया आवरणीयम्, यतस्तस्मिन्नुपशान्तेऽनन्तानुवन्ध्यादिकर्मणि तत् मतिज्ञानावरणीयं क्षयोपशमावस्थां भजते एतावता तदावरणीयं भण्यते । एतच्च पुरस्ताद् भावितमेव, अतः तदावरणीयस्य कर्मणः क्षयण-उक्तलक्षणेन उपशमेन च क्षयोपशमाभ्यामिति च प्राप्यत इति ॥ ननु च ज्ञानावरणीयस्योपशमो नास्ति, त्वया चैतन्निरूपितं ज्ञानावरणमस्यावरणमिति, तत् कथमेतत् । उच्यते-सत्यमेतदेवं, किन्तु मोहनीयोपशमादस्य ज्ञानावरणस्य क्षयः क्षयोपशमो वा भवति, ततः क्षयात् क्षयोपशमाच्च सम्यग्दर्शनमिति भावितमेव किं भवता विस्मार्यते ? ॥ सम्प्रत्यधिकरणद्वारं स्पृशति
भा०-अधिकरणं त्रिविधमात्मसन्निधानेन परसंन्निधानेनोभयसन्निधानेति वाच्यम् । आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । परसन्निधानं
_ बाह्यसन्निधानमित्यर्थः । उभयसन्निधानं अभ्यन्तरबाद्ययोः आत्मपरोभयेषु भयेष सन्निधानमित्यर्थः । कस्मिन् सम्यग्दर्शनम् ? । आत्मसन्नि
धाने परसन्निधाने उभयसन्निधाने इति । आत्मसन्निधाने तावत् जीवे सम्यग्दर्शनं जीवे ज्ञानं जीवे चारित्रमित्येतदादि । बाह्यसन्निधाने जीवे सम्यग्दर्शनं नोजीवे सम्यग्दर्शनमिति यथोक्ता विकल्पाः। उभयसन्निधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति ॥
टी०-अधिकरणमिति । अधिक्रियते यत्र तदधिकरणम्-आधार आश्रय इति । स चाधारस्त्रिविधः-आत्मा वा यत्समवेत दशेनं मुख्यतः, उपचारात् परत्रापि भवति, यद् वस्तु समालम्ब्य तदुपजातं तस्मिन्नपि, तदुभयविवक्षायां चोभयत्र तद् आत्मनि परत्र च । एतदेव त्रैविध्यं दर्शयन्नाह-आत्मसन्निधानेनात्मन्येव स्थितमित्यर्थः, परसन्निधानेन परत्र स्थितमिति, आत्मस्थमपि सदस्मिन् पक्षे न विवक्ष्यते, उभयसन्निधानेनात्मनि परत्र चेति वाच्यम्-व्याख्येयमिति । आत्मसन्निधानमिति चास्याथै सुहृद् भूत्वा कथयतिआत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । आत्मैवाधार आत्मसन्निधानम्, प्रसिद्धतरेण शब्देनाभ्यन्तरसन्निधानमिति व्यपदिष्टः, आन्तर आसन्नस्तस्य सम्यग्दर्शनस्येति । परसन्निधानमिति चास्याथे विवृणोति-बाह्यसन्निधानं, बाह्य-प्रतिमादि कल्पितरूपम् इति । एवमुभयभावना कार्या । अधुनाऽऽधारे त्रिविधे कथिते परस्यैतदेव सन्देहकारणं जातम् । क तर्हि सम्यग्दर्शन मिति पृच्छति-कस्मिन् सम्यग्दर्शनम् ? अथवा अन्यथा प्रश्नः-सम्यग्दर्शनमित्येष गुणः, गुणस्य चावश्यमाश्रयेण भवितव्यम्, स पुनराश्रयः
१ अस्य सम्यग्दर्शनस्य' इति क-टी-पाठः । २ 'बाह्याभ्यन्तरसंनिधानं' इति ग-घ-पाठः । ३ 'बाह्यप्रतिमादिः कल्पितरूप' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org