________________
सूत्रं ७ ]
स्त्रोपज्ञभाष्य–टीकालङ्कृतम्
५७
च, यस्य तदुत्पन्नं तस्य तत्परिणन्तुः यं च निमित्तीकृत्य साधुमुपजायते दर्शनं तस्य च तदिति उभयोर्विवक्षितत्वेन जीवस्य च जीवस्य च विकल्पः सम्भाव्यते । १| तथा यस्य तदुत्पन्नं तस्य च विवक्षितम्, याभ्यां च दृश्यमानाभ्यां साधुभ्यां तदुत्पादितं तयोश्च साधुजीवयोस्तत् सम्यग्दर्शनमुभयत्रापि स्वत्वेन विवक्षितत्वात् जीवस्य जीवयोश्च द्वितीयविकल्पः । २ । तथा यस्य तदुत्पन्नं तस्य विवक्षितं यैश्व दृश्यमानैः साधुभिरुत्पादितं तेषां च तत् सम्यग्दर्शनं सम्भवीति विकल्पो जीवस्य जीवानां चेति । ३ । तथा यस्य जीवस्य तदुत्पन्नं तस्य च विवक्षितं यया च दृश्यमानया प्रतिमया अजीवरूपयोत्पादितं तस्याश्च तदिति तदा जीवस्य च तत् तस्याश्च प्रतिमायास्तदिति सम्भाव्यते विकल्पः जीवस्याजीवस्य चेति । ४ । तथा जीवस्य त (य) स्य तदुत्पन्नं याभ्यां च प्रतिमाभ्यां दृश्यमानाभ्यां तदुत्पादितमुभयत्र विवक्षितत्वात् सम्भाव्ययं विकल्पो जीवस्याजीवयोश्चेति | ५ | तथा त (य) स्य तदुत्पन्नं याभिश्च प्रतिमाभिः दृश्यमानाभिरुत्पादितं सर्वत्र विवक्षितत्वात् जीवस्याजीवानां चेति भङ्गकः सम्भाव्यते । ६ । एतदाह - शेषाः सन्ति, पडित्यर्थः । सम्प्रति तृतीयद्वारं परामृशन्नाह - साधनम् इति । साध्यते- निर्वर्त्यते येन तत् साधनम् । अत्र पृच्छ्यमानं, तदाह -
*
क्षयोपशमादीनां
भा० -साधनम् | सम्यग्दर्शनं केन भवति ? | निसर्गादधिगमाद् वा भवतीत्युक्तम् (१-३) । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोसाधनता पशमेन क्षयोपशमाभ्यामिति ॥
टी० - सम्यग्दर्शनं केन भवति – या सौ रुचिः सुविशुद्धसम्यक्त्वदलिकोपेता सा न भवतीत्यर्थः । इतर आह— निसर्गादधिगमाद् वा भवतीत्युक्तम्, एतत् कथयति - न तावेव निसर्गाधिगमौ तादृशीं रुचिं जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मणां जन्यन्ते, ततः क्षयोपशमादेः सम्यग्दर्शनं सम्भवति, तावपि च निसर्गाधिगम कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरक्षयोपशमं विशुद्धं विशुद्धतरमापादयमानाभ्यां यदा प्रतिविशिष्टः क्षयोपशम आपादितो भवति तदा तस्मात् प्रतिविशिष्टात् क्षयोपशमात् सम्यग्दर्शनं भवति इति कथयति । तत्र निसर्गे बहु वक्तव्यमिति प्राक् तद् दर्शितमेव, एकेन च वाक्येन न शक्यं तत् समस्तं दर्शयितुमित्यतिदिशति -तत्र निसर्गः पूर्वोक्तः । अधिगमोऽल्पविचारत्वादेकेनैव वाक्येन समस्ताधिगमोपसंहारभावादाह-अधिगमस्तु सम्यग्व्यायाम इति । गुर्वादिसमीपाध्यासिनः शुभा या क्रिया सम्यग्दर्शनोत्पादनशक्ता सा सम्यग्व्यायाम इत्युच्यते । उभयमपीत्यादि । उभयमपीति निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं च, तौ च निसर्गाधिगमावुभावपि कथं भवत: ? । आह - तदावरणीयेत्यादि । तस्य रुचिलक्षणस्य ज्ञानस्य यदावरणीयकं तत् तदावरणीयं, आवरणीयशब्दाच्च निश्चीयते १ व्याख्यायाम' इति क-ख - पाठः । २ 'कर्मणां' इत्यधिकः क ख पाठः । २ व्याख्यायाम' इति
क-ख-पाठः ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org