SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ५६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १ कान्नापेक्षा क्रियते प्रतिमादेः तदाऽसौ परिणाम आत्मनि समवेत इतिकृत्वा स एवात्मा तेन परिणामेन तानि तत्त्वान्येवमभिमन्यते, अतः आत्मसंयोगेन जीवस्य सम्यग्दर्शनम्, जीवस्य स्वामिनः सम्यग्दर्शनं रुचिरिति । परसंयोगेनेति । परं साधुप्रतिमादिवस्तु तन्निमित्तीकृत्य श्रद्धानपरिणाम उपजायते अतः स परिणामस्तत्कर्तृक इति तस्य व्यपदिश्यते । अत्र च परसंयोगे षड् विकल्पा भवन्ति जीवस्येत्यादयः । यदाऽस्य जन्तोः परमेकं मुनिमालम्व्य क्रियानुष्ठानयुक्तं सा रुचिरुपजायते, क्षयोपशमो हि द्रव्यादिपञ्चकमुररीकृत्य प्रादुरस्ति, अतो बहिरवस्थितस्य साधोरुत्पादयितुः सा रुचिः, स्वं कुम्भ इव कुम्भकारस्येति । एवमेकमजीवाख्यं पदार्थ प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः समुपाजनि तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति । यदा पुनद्वौं साधू निमित्तं क्षयोपशमस्य विवक्षितौ नात्मा तदा जीवयोः सम्यग्दर्शनम् । यदा पुनरजीवी प्रतिमाख्यावुभौ निमित्तीकृतौ तदा तयोः स्वामित्वविवक्षायां तत् सम्यग्दर्शनमिति । यदा पुनवेहवो जीवाः साधवस्तस्योत्पत्तौ निमित्तं भवन्ति तदा जीवानां सम्यग्दर्शनं नतु यत्र समवेतमिति । यदा पुनर्बह्वीः प्रतिमा भगवतां दृष्ट्या तत्त्वार्थश्रद्धानमाविर्भवति तदा च तासामेव तत्कर्तृत्वान्नात्मन इति ॥ उभयसंयोगेनेति । यदात्मनोऽन्तरङ्गस्य बहिरङ्गस्य च साध्वादेस्तद् विवक्ष्यते तदा उभौ तस्य सम्यग्दर्शनस्य स्वामिनौ भवत इत्युभयसंयोगोऽभिधीयते । अत्र च लापविक आचार्यों हेयान् विकल्पान् दर्शयति । आदेयाः पुनरुपात्तव्यतिरिक्ताः । अयं तावदत्र विकल्पो न सम्भवति जीवस्य सम्यग्दर्शनमिति, यतोऽनेन षष्ठयन्तेन सम्यग्दर्शनस्य यः समवाय्यात्मा स वा भण्यते बाह्यो वा तीर्थकरादिर्यमवलोक्य स तादृशः परिणतिविशेषः समुदभूदिति, तत्र यद्यात्मा समवायी सम्बध्यते, नास्ति तदा परस्य सम्बन्धः, उभयसंयोगेन चैतचिन्त्यते, अथ बाह्यस्तीर्थकरादिभिरभिसम्बध्यते तदा नात्मादिसम्बन्धः अतस्त्याज्य एवायं विकल्पः । एवं नोजीवस्यति । अजीवस्येत्यर्थः । एकस्याः प्रतिमाया विवक्षितत्वादुभयसंयोगाभाव इति हेयो विकल्पः । तथा जीवयोः सम्यग्दर्शन मिति न सम्भवति यस्माद् द्वावत्र समवायिनौ पुरुषौ स्वामितया विवक्षितौ मम च सम्यग्दर्शनमस्य च सम्यग्दर्शनमुत्पन्न मिति, यतस्तु तदालम्ब्योत्पन्न विवक्षव स्वामितया उत्पादकनिमित्तयोथोभयसंयोगो विवक्षितः अतस्त्यज्यते । तथा अजीवयोः सम्यग्दर्शनमिति द्वयोः प्रतिमयोरालम्बनीकृतयोर्भेदेन तद् विवक्षितम्,यत्र तु समवेतं तत्राविवक्षातस्त्यज्यते अयमपि विकल्पः । तथा पञ्चमोऽपि त्याज्यः । जीवानामिति । अत्र हि बहव एव सम्यग्दर्शनसमवायिनो विवक्षिता जीवा मम अस्य चास्य चेति न तु येनालम्बनेन तेषामुत्पन्नं तस्यालम्ब्यस्य तत् सम्यग्दर्शनं विवक्षितम्, तस्मादयमपि त्याज्यः। षष्ठोऽपि अजीवानामिति त्यज्यते, आलम्ब्यानां बहूनां प्रतिमानामेतत् सम्यग्दर्शनमिति विवक्षितं, यत्र तूत्पन्नं तत्राविवक्षितं यत्र नोत्पन्नं तत्र विवक्षितमिति त्याज्य एव षष्ठो विकल्पः। एवमेते उभयसंयोगविवक्षायां षडपि त्यक्ताः॥ आदेया अपि षडेव, यथा जीवस्य च जीवस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy