________________
सम्यक्त्वस्य
सूत्र ७ ]
. स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-सम्यग्दर्शनपरीक्षायामित्यादि । यदा सम्यग्दर्शनं परीक्ष्यते तदापि
सम्यग्दर्शनं किं गुणः क्रिया द्रव्यमिति पृष्टे निर्देशो भवति, निर्देश ५ उच्यते-द्रव्यम् , ये जीवेन शुभाध्यवसायविशेषेण विशोध्य
पुद्गलाः प्रतिसमयमुपभुज्यन्ते अतस्ते सम्यग्दर्शनस्य निमित्तम्, तदुपष्टम्भजन्यत्वात् श्रद्धानपरिणामस्य, ततश्च कारणे कार्योपचाराद् द्रव्यं सम्यग्दशनम् । मुख्यया तु वृत्त्या रुचिरात्मपरिणामो ज्ञानलक्षणः श्रद्धासंवेगादिरूपः सम्यग्दर्शनं तदप्या. त्मद्रव्यमेव द्रव्यनयस्य, पर्यायनयस्य तु गुणमात्रमवसेयमिति । यदि तर्हि पुनला द्रव्यस्वभावा रुचिमापादयन्तः सम्यग्दर्शनमिति भण्यन्ते, न तर्हि क्षीणदर्शनमोहनीयस्य छद्मस्थकेवलिसिद्धजीवस्य सम्यग्दर्शनं प्राप्नोतीत्युक्ते आह-सम्यग्दृष्टिजीव इति । सम्यक शोभना दृष्टिा सत्पदार्थावलोकिनी सा सम्यग्दृष्टिर्यस्य क्षीणदर्शनमोहनीयस्य स सम्यग्दृष्टिजीवः । एतत्कथयति, क्षीणे दर्शनमोहनीये नैवासौ सम्यग्दर्शनी भण्यते, कस्तहि ? सम्यग्दृष्टिरेवासौभण्यते, ततः सिद्धसाध्यता, स पुनः क्षीणदर्शनमोहः किं रूपी ? नेत्याह-अरूपी । अविद्यमान रूपमस्येत्यरूपी, सर्वधर्मादिषु क्षेपः । नासौ.रूपादिधर्मसमन्वितः अमूर्त आत्मेति । छद्मस्थकेपलिनोर्यद्यपि कर्मपटलोपरागः तथाप्यात्मा न स्वभावमुपजहाति, आगन्तुकं हि कर्मरजो मलिनयत्यात्मानमभ्रादीव चन्द्रमसम् । सिद्धः सर्वथाप्यरूप एव । सम्यग्दृष्टिरिदानीमाशक्यते-किं स्कन्धो ग्राम इति, तन्निरासायाह-नोस्कन्धः । अरूपत्वादेव न स्कन्धः, पुद्गलादिरूपस्वप्रदेशाङ्गीकरणात् स्यात् स्कन्धः, अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः सम्यग्दृष्टिः । एवं नोग्रामोऽपि वक्तव्यः । एवं सम्यग्दर्शनिनः सम्यग्दर्शनकारणत्वात् पुद्गलानपादिक्षत् सम्यग्दर्शनं, तैर्वियुतः पुद्गलैः सम्यग्दृष्टिरिति॥
भा०-स्वामित्वम् । कस्य सम्यग्दर्शनमिति ? एतदात्मसंयोगेन परसंयोगेन उभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् ।
. परसंयोगेन जीवस्याजीवस्य जीवयोरजीवयोर्जीवानामजीआत्मपराभयतन वानामिति विकल्पाः । उभयसंयोगेन जीवस्य नोजीवस्य
- जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति ॥ ___टी-सम्प्रति स्वामित्वशब्दोच्चारणे स्वामित्वम् इत्यनेन कस्य स्वामिनः सम्यग्दनिमित्युद्देशवाक्यमेवं कृत्वा प्रवृत्तम् । किं यत् समवाय्येतत् तस्यैवैतत्, उत तदुत्पत्तिनिमित्तभूतस्यान्यस्यापि व्यवहारार्थमाश्रीयत इति ? । उच्यते-मुख्येन तावत् कल्पेन यद्यत्र समवेतं तत् तस्यैवेति, व्यवहारार्थं तु निमित्तभूतमप्याश्रीयते । एतदाह-आत्मसंयोगेनेत्यादि । आत्मसंयोगेनात्मसम्बन्धेन । यदा हि उत्पद्यमानस्य सम्यग्दर्शनस्य परतोऽपि निमित्तात् प्रतिमादि
१'वियुतैः' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org