________________
सूत्रं ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् किमभ्यन्तरमात्मा उत बाह्य प्रतिमादिवस्तु यदुपष्टम्भेनोपजातमुतोभयमिति प्रनित आहआत्मसन्निधाने तावदित्यादि । आत्माधारविवक्षायां जीवे सम्यग्दर्शनं, तस्यान्यत्रादर्शनात्, यथा रुचिः, एवं ज्ञानचारित्रे अपीति, एतदाह-जीवे ज्ञानं जीवे चारित्रमिति । न च ज्ञानदर्शनचारित्राणि विरहय्यान्यो जीवोऽस्तीति काल्पनिकमपदिशति । कथम ? यदा तावज्जीवे सम्यग्दर्शनं तदा ज्ञानचारित्रे आधारभाव प्रतिपद्येते, ज्ञानचारित्रात्मनि जीवे सम्यग्दर्शनम् । यदा जीवे ज्ञानं तदा दर्शनचरणयोराधारता, यदा जीवे चारित्रं तदा ज्ञानदर्शनयोराधारता, चारित्रमाधेयमिति । एतदादि इति । एतानि ज्ञानादीनि आदिर्यस्य गुणान्तरस्य तदेतदादि, तदपि जीवे आधारे दृश्यम्, भव्याभव्यत्वादि । बाह्यसन्निधाने जीवे सम्यग्दर्शनमित्यादि ॥ ननु चात्मन्येवोपलभ्यत इत्युक्तं कथमिदानीं परस्मिन्नपि व्यपदिशति ?। उच्यते-न यदेव यत्राविभागेनावस्थितं तदेव तत्रेत्युच्यते, किन्तु अन्यत्राप्यवस्थितमन्यत्र अपदिश्यते, देवदत्ते धनमिति गेहस्थमेव तत्रेत्युच्यते । जीवे सम्यग्दर्शनमित्यादयो विकल्पाः पूर्व भाविता एव, इहाप्याधारभेदं केवलमुच्चारयता सर्व तथैव भावनीयम् । उभयसन्निधाने चाभूताः सद्भूताश्च षडेव यथोक्ता भङ्गा एव विकल्पाः भङ्गेषु वा विकल्पा इति ॥ स्थितिद्वारम्, स्थितिरित्येतद् विवृणोति
भा०-स्थितिः। सम्यग्दर्शनं कियन्तं कालम् ? । सम्यग्दृष्टिििरधा।
- सादिः सपर्यवसाना सादिरपर्यवसाना च । सादिसपर्यसम्यग्दृष्टेश्च द्विधा वसानमेव सम्यग्दर्शनम् । तजघन्येनान्तर्मुहूर्तम, उत्कृष्टेन
स्थितिः षट्षष्टिः सागरोपमानि(णि) साधिकानि । सम्यग्दृष्टिः सादिरपर्यवसाना । सयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चति ॥ ___टी.-सम्यग्दर्शनं कियन्तं कालं सम्पन्नं सदवतिष्ठते ? "कालाध्वनोः" (पाणिनिः अ० २, पा० ३, मू० ५) इति द्वितीया । प्रश्नयितुरयमभिप्रायः-प्रागभूत्वा "थ्यादृष्टेर्दर्शनमाविश्वकास्ति, यच्चोत्पत्तिमत् त ( किश्चि )त् सादि सपर्यवसानं दृष्टं मनुष्यत्वादिवत्, किञ्चित् सादि अपर्यवसानं सिद्धत्वादिवत्, आचार्योऽपि प्रश्नाभिप्रायानुरूपमेवोत्तरमाहसम्यग्दृष्टिर्दिविधेत्यादि । द्विविधेति सादिः सपर्यवसाना सादिरपर्यवसाना चेत्येवं द्विविधा शोभना दृष्टिः । का च शोभना ? या शुद्धदलिककृता, या च दर्शनमोहनीयक्षयात् त्रयाणां भवति छद्मस्थस्य श्रेणिकादेरिव, अपरा भवस्थस्यापायसद्व्यपरिक्षये केवलिनः, अपरा सिद्धस्येति । तत्र याऽपायसद्व्यवर्तिनी श्रेणिकादीनां सदद्रव्यापगमे च भवति अपायसहचारिणी सा सादिसपर्यवसाना, यस्मिन् काले श्रेणिकादिभिदर्शनमोहसप्तकं क्षपयित्वा रुचिराप्ता स आदिस्तस्य:, यदा त्वपायः-आभिनियोधिकमपगतं भविष्यति केवलज्ञाने उत्पन्ने सोऽन्तोऽस्याः सम्यग्दृष्टेः, एतदाह-सादिः सपर्यव
१ 'अन्यथा' इति पाठान्तरम् । २ 'मन्यत्वं' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org