________________
७२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
शोणशोणितधाराभि-वर्षत्याशु घनाघन: । उड्डीय जीवितं याति, शिवानां फेत्कृतारवैः ॥२२३॥ घूकघूत्कृतशब्देन, गुहासु प्रतिसर्पता । कर्णाभ्यागतं नैव, श्रूयते जनजल्पितम् ॥२२४।। मुक्तकेशा विवस्त्राश्च, करोल्लालितकर्तिका: । ज्वाला मुखेन मुञ्चन्त्यो, योगिन्यो ननृतुरम्बरे ॥२२५।। स चासनसमासीनो, यावदास्ते नृपाङ्गजः । खेचरोऽपि च निर्भीक: प्राजुहोजातवेदसम् ॥२२६॥
तयोः सत्त्वं समालोक्य, उपशान्ता च बिभीषिका।
अत्रान्तरे समायात:, क्षेत्रपालो महाबल: ॥२२७॥ तयो: सत्त्वपरीक्षार्थं, मलयागस्य नायकः । क्षेत्रपालो महासत्त्व-क्षोभितानेकसाधकः ॥२२८||
भो मानव! किमर्थं ते, करे खड्गो विलोक्यते ?।।
मन्त्राजापकर: कोऽयं ? देवी का लिखिता भुवि ? ॥२२९॥ मलये मां विमुच्यान्यं, देवं [च] ध्यायतस्तव। का वैदग्घी कुत: सिद्धिः, क्रुद्धस्ते जीवितान्तकः ।२३०। कुमारोऽवग् न ते युक्तं, वक्तुमीदृग्वच:सुर ! राकाचन्द्रः सुधां सूते, न कदाचिद्दवानलम् ।।२३१।। विद्यासाधनकल्पोऽयं, यदन्या देवता कृता। मलय: कस्य सम्बन्धी, वीरभोग्या वसुन्धरा ॥२३२॥ श्रुत्वेदं [स] कुमारस्य, सदएँ कर्कशं वचः । सावेशो विहितावज्ञो, जगादेदं महाबल: ॥२३३।। पाप ते नाशयाम्यद्य, पौरुषं पुरुषाधम ! । न हि साम्येन शाम्यन्ति, दुर्जना दृष्टचेतसः ॥२३४|| विधाय विकृताकार, वेतालाकृतिमात्मनः । ततो वर्धितुमारब्धो, दरकारी तनूभृताम् ॥२३५।। दक्षिणस्यां नरं कञ्चि-त्खव्यग्रकरं वहन् । कापालिकं तु वामायां क्रन्दन्तं करुणैः स्वरैः ।।२३६।। तयो: कर्तिकयोत्कृत्य, खादन् मांसानि शोणितम् । पिबन् हसन्नट्टहास्येन, नृत्यन्नुच्चैश्च विस्वरम्॥ सौविराञ्जनभृङ्गालि-महिषशृङ्गसमप्रभः । कालकुटिलदंष्ट्राल: क्षामगण्डो भयङ्करः ॥२३८॥ सूर्पकर्णो विरूपाक्ष-स्तुच्छचिर्पटनासिकः । रक्ताक्ष: कपिलकेशश्च, वृश्चिकैः कृतशेखरः ॥२३९।। तत्कालोत्कृतरक्तार्द्र-चर्मावृतकटीतट: । कंटीभागे वहन् भीम, महाकायं महोरगम् ॥२४०॥ विसर्पत्स्फारफूत्कार-भुजङ्गकृतकङ्कण:, 'कगवाशक्तबीभत्स-नृमुण्डकृत कण्डिकः ॥२४१॥ नररक्तवसापूर्ण-कपालन्यस्तलोचन: मुखमुक्तज्वलज्जवाल: सीमा सर्वभयकृताम् ।।२४२॥ रक्ताभ्यक्तां करासक्तां, कृतान्तरसनासमाम् । कराला कर्तिकां तीक्ष्णां, संलिहन् लोलजीह्वया। सूर्पाकारनख: क्षुद्रः, क्रमेलकशिरोधरः । दीर्घदन्तुरदन्तश्च, करकम्पितकर्तिकः ॥२४४|| विधाय विकृतं रूप-मूर्ध्वं गत्वा नभस्तले। हसन्नट्टहासेन नृत्यत्युद्धरकन्धरः ॥२४५।। हेलयासौ चचालाथ, मन्त्रसाधकसन्मुख: । कुमार: खड्गमादाय, तयोरन्त:स्थितोऽवदत् ॥२४६|| कस्त्वं भो: केन कार्येण, गम्यते सत्वरैः पदैः । निर्निमित्तं किमित्येवं, हस्यते विस्वरैः स्वरैः ॥२४७॥ स प्राह साधकस्यास्य, मांसरक्तपिपासया। गम्यते हस्यते चेष्टा, एतस्यैव दुरात्मनः ॥२४८।। १- मनुष्यकपाल-Jपार्श्वे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org