________________
अधिकार २ / लोक ५०-५९ / नरकेसरिकथा ३
1
निशीथे खड्गमादाय, निर्गतोऽलक्षितो जनैः । एकाक्येव महासत्त्व-श्चचाल नरकेसरी ॥ १९५॥ दक्षिणां दिशमाश्रित्य, परिसर्पन्नितस्तत: । गतो नैर्ऋतकोणस्थां, वनराजिविराजिताम् ॥१९६॥ चन्द्रसूर्यकरागम्यां, रौद्रामतिबिभीषणाम् । कृतान्तवदनाकारां, गुहां भीममुखाभिधाम् ॥१९७॥ मन्त्रसाधकसाक्षेप-हुङ्कारवचनैस्तथा । पुष्पधूपादिगन्धैश्च ससत्त्वेति विनिश्चिताम् ॥ १९८ ॥ प्रधानपद्मरागेण, तमःस्तोमविघातिना । प्रकाशितगुहाद्वारो, दृष्टो विद्याधरीसुतः ॥ १९९॥ कुमारेणापि सञ्जात- विस्मयेन - विलोकितः । कोऽयं युवा गुहामध्या - त्केसरीव विनिर्गतः ॥ २००॥ नितान्तसुकुमाराङ्गो, महौजा नव्ययौवनः । अत्यन्तकृशसर्वाङ्ग - स्तप:कारी सुसाधुवत् ॥ २०१॥ सम्भ्रान्तं कुमरं दृष्ट्वा, समागत्य कृतादरः । पप्रच्छ स्वागतं भ्रातः !, कुतस्तेऽत्र समागमः ? || २०२ || कुमरेण कथितं किञ्चित्किञ्चित्तेन निवेदितम् । एवं परस्परालापै - स्तयोस्तत्रावतिष्ठतोः ॥२०३॥ कामसंरोहिणी नाम, तरुणी तत्र चागता । दृष्टेति जातसङ्केत - कुमारेण निरीक्षिता ॥ सीमन्तकविन्यस्त-पद्मरागमणित्विषा । सर्वतोऽपि विसारिण्या, नाशयन्ती निशातम: ॥ २०५ ॥ ततो विद्याधरः प्राह, कुमार ! कुरु मे वचः । पिबेदं सुन्दरं दुग्धं, हृद्यं मदुपरोधतः || २०६|| विद्याकल्पो महाभाग !, अर्धरात्रे तृतीयके । पीयतेऽनन्यगव्यस्य, पयः सम्पुटकत्रयम् ॥२०७॥ अतिथिस्त्वं समुत्तिष्ठ, सहितैरेव पीयते । कुमरः प्राह भुङ्क्ष्व त्वं, रुचिर्मे नास्ति साम्प्रतम् ॥२०८॥ गत्वैकान्ते ततः सोऽपि, पयः पीत्वा समागतः । निषण्णः कुमरस्यान्ते, बभाणेदं स्फुटाक्षरैः ॥ २०९॥ प्रभाते बिल्वलक्षेण, तर्पणीयो हुताशनः । यदि सत्त्वं तदा सिद्धि-र्निसत्त्वस्य वृथा श्रमः ॥२१०॥ पुरुषरत्नमिवाभाति, 'भवांश्च परमाकृतिः । समस्ति मे मनोवाञ्छा, परं वक्तुं न शक्यते ॥ २१९॥ प्रहराष्टं महाभाग !, प्रभाते यदि स्थीयते । ममान्तिके तदा सर्वं, सिद्धं मन्यामहे वयम् ॥२१२|| किमेभिश्चञ्चलैः प्राणैः, कर्तव्यं कुरु वाञ्छितम् । प्रातरेव भवत्पार्श्वे, मां जानीहि समागतम् ॥ २१३ ॥ इत्युक्त्वाथ कुमारोऽपि, क्षणं सुप्त्वा निजाश्रये । तल्पमुज्झांचकाराशु, मित्रार्थकरणोद्यतः ॥ २१४|| मलयसुन्दरस्याथ, मेघनादस्य च स्वयम् । रहस्यं हृदि निक्षिप्य, गतोऽसावसिना सह ॥ २१५ ॥ आत्मा सन्दर्शितस्तेन, खेचरस्य गुहामुखे । निषण्णः कुमरस्तत्र, खेचरार्पितविष्टरे ॥ २१६ ॥ यत्कर्तव्यं च तद् ब्रूहि, सर्वत्र प्रगुणा वयम् । जुहोमि श्रीफलैरग्निं, मन्त्रजापपुरस्सरम् ॥२१७॥ विघ्नान् सर्वान् निराकुर्वं-स्तिष्ठ त्वं सावधानकः । निर्भीत: साहसोपेत-स्त्वदायत्ता हि सिद्धयः ॥२१८॥ लिखितं खेचरेणापि, रक्तचन्दनमण्डलम् । तदेकदेशे लिखिता, देवताबहुरूपिणी ॥२१९॥ सारकाष्ठभृते कुण्डे, ज्वलज्ज्वालासमाकुले । होमं कर्तुं समारब्धः, श्रीफलैर्मन्त्रपूर्वकम् ॥ २२०॥ अत्रान्तरे समाधूत-धूलीतृणमहीरुहः । वातो वातुं समारब्ध - श्चकम्पे मेदिनीतलम् ॥ २२१ ॥ घनो गर्जितुमारब्धो, विद्युज्झम्पाभिरुत्थिता । न किंचित्तमसा तत्र, दृश्यते पुरतः स्थितम् ॥२२२॥
I
१ भवान्यर BJP 1
Jain Education International
For Private & Personal Use Only
७१
www.jainelibrary.org