________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ससहाय: कुमारोऽपि, समये सह कान्तया। मुत्कलितो गच्छ हे वत्स!, पन्थान: सन्तु ते शिवा:।१६६। द्रोणीभिर्जलमुत्तीर्य, गतास्ते स्तोकवासरैः । समागात्सन्मुखं तत्र, मलयकेतुभूपतिः ॥१६७|| प्रवेशितो मुदा तेन, कृत्वा पुरमहोत्सवम् । श्वश्रूश्वशुरमानम्य, कुमारो नरकेसरी ।।१६८।। निषण्ण: प्रश्नितो राज्ञा, सर्वत्र कुशलं तव । प्रष्टव्यमेतदेवेह, चले यौवनजीविते ॥१६९।। प्रणम्य पितृपादेभ्यः, सस्नेहं जयसुन्दरी । मातुः पादग्रहं कृत्वा, तदङ्के निषसाद सा ॥१७०॥ सानन्दा सविषादा च, जज्ञे मलयसुन्दरी । वत्से ! सङ्खपत: सर्व-मामूलाच्चरितं निजम् ॥१७१।। निवेदय यथावृत्तं, कौतुकं मम वर्तते । तयापि कथितं सर्वं, यथावृत्तं तथादितः ॥१७२॥ एतच्छ्रुत्वा जगादेदं, माता मलयसुन्दरी । यन्न दृष्टो विवाहस्ते, सखेदं तेन मानसम् ॥१७३॥ सुपात्रवरलाभेन, मुमुदे च मनो मम । [इत्युक्त्वा विरता राज्ञी, प्रमोदभरमेदुरा] ॥१७४।। कृताशेषोपचारस्य, राज्ञा मलयकेतुना । पुत्रादभ्यधिकं तत्र, दृश्यमानस्य सर्वदा ॥१७५|| वव्रजुर्वासरास्तस्य, सुखितस्य प्रमोदत: । मनोवाञ्छितवस्तूनां, तत्क्षणादेव योगतः ॥१७६॥ नाभिहदप्रविष्टेन, जात्येन मृगनाभिना । वासिताशेषदिक्चक्र:, सत्पुष्पकृतशेखर: ।।१७७॥ कर्पूरपूरसन्मिश्र-सारश्रीखण्डचर्चित: । मृगमदेन सुगन्धेन, कपोले कृतमण्डन: ॥१७८।। आर्द्रकर्पूरहारेण, विराजितशिरोवर: । हारिहीरकसङ्कीर्ण-श्रवणासक्तकुण्डल: ॥१७९।। नि:श्वासोह्यमहामूल्य-सद्वस्त्रावृतविग्रह: । ताम्बूलबीटकाशून्य-कर: कृतकुतूहल: ॥१८०।। ललाटपट्टविन्यस्त-तिलकेन विराजित: । आरामोद्यानरम्येषु, काननेषु वनेषु च ॥१८१॥ सरसीषु तडागेषु, निर्झरेषु नदीषु च । लतामण्डपगुल्मेषु, द्राक्षामण्डपभूमिषु ।।१८२।। निकुञ्जेषु मनोज्ञेषु, नानापुष्पसुगन्धिषु । नागवल्लीमनोज्ञेषु, सोऽक्रीडत्सह कान्तया ॥१८३।। अभग्नप्रसरं तस्य, क्रीडत: कामभूमिषु । सम्पूर्णाशेषकामस्य, मासैरपि दिनायितम् ॥१८४।। प्रिये! स्थानं प्रमोदानां, मलयो हि मया श्रुत: । तेनादृष्टेन नो किञ्चिन्मया दृष्टं कुतूहलम् ॥१८५।। तयाऽपि कथितं मातु-र्मात्रा भत्रै निवेदितम् । तेनाऽपि कारिता सर्वा, सामग्री यानहेतवे ॥१८६।। विशिष्टभक्ष्यभोज्यानि, यदन्यदपि सुन्दरम् । तदुपयोगि योग्यं च, तत्सर्वं प्रगुणीकृतम् ॥१८७।। सनृपः सकलत्रश्च, बहुलोकगणान्वित: ! कुमारो नगमारूढः, कैलाशमिव शङ्करः ॥१८८॥ तत्र तालवने रम्ये, चन्द्रनामोदसुन्दरे । एलागन्धभृतघ्राणे, झरनिर्झरहारिणी ॥१८९।।कृतो वास: कुमारेण दृष्टैका हारहारिणी । श्रवणासक्तवजेन्द्र-कुण्डलोद्योतितानना ॥१९०।। अष्टादशाब्ददेशीया, कान्तकार्तस्वरप्रभा । समुत्तीर्य नभोमार्गा-दक्षिणामनुससार स: ॥१९१।। कैषा कैषेति जल्पन्तो, धाविता: पृष्टतो जना: । सापि दुजर्नमैत्रीव, क्षणादेव न दृश्यते ॥१९२।। तथैव वलितो लोको, न च सिद्धं प्रयोजनम् । कुमारश्चिन्तयामास, प्रथममेतत्कुतूहलम् ॥१९३॥ भुक्त्वा विश्रम्य सर्वत्र, विलोकितकुतूहल: । भूयोऽप्यावासमागम्य, सुष्वाप नृपनन्दनः ॥१९४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org