________________
अधिकार २ / लोक ५०-५९ / धूपपूजायां नरकेसरिकथा ३
एवंविधं न ते युक्तं, वक्तुं च योगिनः सतः । न जल्पन्त्यपराधेऽपि, सन्तो हि कर्कशां गिराम् ॥ मेरे पाप ! प्रथमं तावत्, पिबामि तव शेणितम् । पश्चादस्याः करिष्यामि, नवखण्डं शरीरकम् ॥१३९॥ इत्युक्त्वा धावितो योगी, वेगत: कुमरं प्रति । वाहिता कर्तिका तेन, वञ्चिता कुमरेण सा । १४० । हतश्च दक्षिणे बाहौ, कुमारेणापि योगिकः । दृढमुष्टिप्रहारेण, पतिता कर्तिका भुवि ॥ १४१ ॥ भूयोऽपि मुष्टिना पृष्ट, प्रहत: पतितो भुवि । विलक्षोऽलब्धलक्षश्च, निरूपयन् दिशो दश ॥ १४२ ॥ कुमारेण भणितो योगी, उत्तिष्ठ कुरु पौरुषम् । पतिता न विराजन्ते, रणभूभौ महौजसः ॥१४३॥ भणितश्चलचित्तेन, योगिना नरकेसरी । यदहं वच्मि तत्कार्यं, कृतं पौरुषकर्मणा ॥ १४४॥ अस्ति मे गारुडं दिव्यं, त्रसेतरविषापहम् । द्वितीयमञ्जनं श्रेष्ठं, तिरोधाननिबन्धनम् || १४५|| गृहाणैतद् द्वयं येन, जायते मम निर्वृतिः । प्रतिपन्नं कुमारेण, गृहीतं विधिपूर्वकम् ॥ १४६॥ मलयकेतुसुता बाला, लक्षणलाञ्छितविग्रहा । सुप्ताकृष्य मयानीता, चण्डिकाबलिहेतवे ॥ १४७॥ पूर्वसेवा कृता ताव - दुत्तरा चावतिष्ठते । तत्र कन्याबलिं दत्त्वा, साधयिष्यामि यक्षिणीम् ॥१४८॥ स्थितमेतद्यथाचैषा, प्राप्नोति पितृमन्दिरे । तथा 'त्वया च कर्तव्यं, भूयो भवतु दर्शनम् ॥ १४९ ॥ गतो योगी कुमारोऽपि, कामदेवगृहे गतः । दृष्टोऽसौ मेघनादेन, पृष्टश्च क्वोषितो भवान् ॥ १५०॥ तेनापि कथितं सर्वं, यथा वृत्तं तथाखिलम् । विहस्य भणितं तेन तुष्टस्ते मित्र! मन्मथः ॥ १५१ ॥ मुहूर्तमेकमत्रैव, स्थातव्यं स्थिरबुद्धिना । प्रतिपन्नं कुमारेण, मेघनादो गतो गृहे ॥ १५२ ॥ प्रोक्त: सर्वोऽपि वृत्तान्त:, प्रहृष्टो हेमसुन्दरः । चलितः सर्वसामान्या, सम्प्राप्तः काममन्दिरे ॥ १५३॥ गन्धवारणमारोप्य, सशृङ्गारं वधूवरम् । प्रविवेश पुरं राजा, कृतशोभं समन्ततः ||१५४|| सम्पादितेतिकर्तव्यः, स्वयं राज्ञा पुरस्कृतः । वस्त्रैश्च भूषणाद्यैश्च, कालं नयति भूपभूः || १५५ || अन्यदा ज्ञातवृत्तान्तो, मलयकेतुभूमिपः । तुतोष हृदये बाढं, माता मलयसुन्दरी ॥१५६॥ भणितो मलयसुन्दर्या, मलयकेतुर्महिपतिः । शोभनं यदि जामाता, आयाति सह वत्सया ॥ १५७॥ प्रिये ! खेदो न कर्तव्यः, करोमि तव वाञ्छितम् । इत्युक्त्वा प्रेषिता भृत्याः, सोपदा हेमपत्तने ॥ १५८ ॥ तेऽपि हेमपुरं प्राप्य, प्रतीहारनिवेदिताः । सोपायना निरुत्सेकाः, सभामण्डपमागताः ॥१५९॥ अष्टादशसरं हारं, हरहारसमप्रभम् । सारश्रीखण्डखण्डानि, विमुच्य पुरतो नताः ॥ १६०॥ निषण्णा दर्शितस्थाने, दृष्टाः सानन्दया दृशा । पृष्टाश्च क्षेमं सर्वत्र, मलयकेतुभूभुजः ॥१६१॥ क्षेमे च कथिते भणिताः, किमागमनकारणम् । ततस्तैरर्पितो लेख: सन्दिष्टं कथितं गिरा ॥ १६२ ॥ मलयकेतुभूपेन, भूयो भूयः कृतादरम् । सन्दिष्टं च तथा कार्यं कुमारो नरकेसरी ॥१६३॥ यथाशीघ्रं समायाति, मलये सह वत्सया । एष सन्देशकः स्वामिन्!, लेखार्थोऽप्ययमेव च ॥ १६४ ॥ ततः सम्भूषिता राज्ञा, वस्त्राभरणभूषणैः । प्रतिप्राभृतहस्ताश्च, ते शुभेऽह्नि विसर्जिताः || १६५ || १ द्वये- BJP IT
Jain Education International
For Private & Personal Use Only
६९
www.jainelibrary.org