________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अन्यदा प्रश्नितस्तेन, मां समुद्दिश्य केवली । भगवन् जयसुन्दर्याः कोऽत्र भर्ता भविष्यति ? ॥ ११२ ॥ स प्राह भुवनानन्दी, रणकेसरिनन्दनः । उदारचरितो वीरो, नाम्ना च नरकेसरी ॥११३॥ राकाचन्द्र इवाशेष- शुभशुभ्रकलालयः । रूपातिशयसंपन्नः, सोऽस्या भर्ता भविष्यति ॥ ११४ ॥ ततः सुखेन तिष्ठन्त्या, गतः कालः कियानपि । अथ हर्म्यतले सुप्ता, योगावर्तक योगिना ॥११५॥ सहसैव समानीता, मन्त्रेणाकृष्य सत्वरम् । श्मशानेऽतिमहारौद्रे, भूतप्रेतसमाकुले ॥ ११६ ॥ तत्र भूमिगृहे मुक्त्वा, मां गतोऽसौ दुराशयः । योगिन्यपि गता क्वापि, या मुक्ता मम रक्षिका ॥ ११७ 'विजनं वीक्ष्य नष्टाहं, श्रुत्वा बहुजनारवम् । शनै: शनै: समायाता, प्रविष्टा काममन्दिरे ॥ ११८ ॥ प्रणम्य मदनं द्वारि, निर्गता शून्यमानसा । क्षणमेकं स्थिता यावत्सहकारतरोरधः ॥११९॥ विषमध्येऽमृताकारं, तावद्दृष्टं तवाननम् । ततो हस्तिभयाद्भीता, द्रुतमत्र समागता ॥१२०॥ कथितो यस्त्वया पृष्टः, स्ववृत्तान्तो मयाखिलः । साम्प्रतं श्रोतुमिच्छामि, त्वदीयमपि मूलतः ॥१२१॥ कुमारेणापि नि:शेषो, मातृपितृपुरादिकः । कथितो निजवृत्तान्त:, सानन्दाजनि कन्यका ॥१२२॥ अहोऽनुकूलमाचीर्णं, योगावर्तकयोगिना । 'अतर्कित कृतो येन त्वया सह समागमः ॥ १२३ ॥ आपदः सम्पदश्चैव, समीपस्थाः शरीरिणाम् । आपदपि च येनैषा, मे जाता सम्पदुत्तमा ॥ १२४ ॥ कुमार! कुरु मे पाणि-ग्रहणं कामकानने । इहैव किं विचारेण, दीर्घसूत्री विनश्यति ॥१२५॥ हुताशं साक्षिणं कृत्वा, गान्धर्वेन विवाहिता । भुक्ता सर्वाङ्गसंस्पर्श, जाता सर्वाङ्गनिर्वृतिः ॥१२६॥ उपहत्य जनं कञ्चिद्भङ्क्त्वा भूरि लतागृहान् । इतस्तत: परिभ्रम्य, मोटयित्वाऽवनीरुहः ॥१२७|| तुरङ्गिभिः समानीतो, वेणुग्राहैः कदर्थितः । आधोरणवशं जातो, यातः पुरवरे गजः ॥ १२८ ॥ यथास्थानं गतो लोको, विजनं कामकाननम् । सुवसं दुर्वसं धत्ते, दुर्वसं सुवसं सुधीः |||१२९|| यतः अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते ।
विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ १३० ॥ द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
I
आनीय झटिति घटयति, विधिरभिमतमभिमुखीभूतः ॥ १३१ ॥ गह्वराच्च कुमारोऽपि, खङ्गहस्तों विनिर्गतः । पश्चाद्[ [वि] निर्गता कान्ता, सत्कान्ता जयसुन्दरी ॥ पतिसम्पर्कसञ्जातां, बिभ्राणा वपुषः श्रियं । कंकणं च विवाहाख्यं दधती वामपाणिना ॥१३३॥ शिरस्याहितसत्पुष्पा, कर्णविन्यस्तपल्लवा । वनश्रीरिवैतस्य, पृष्टौ लग्ना चकास्ति सा ॥ १३४॥ अत्रान्तरे समायातः, क्रोधान्धीकृतलोचनः । कम्पयन् कर्त्तिकां रौद्रां, योगावर्तकयोगिकः ॥१३५॥ आः पापे! वञ्चयित्वा मां कथमत्र समागता ? । पिबत्वतोऽद्य ते कोष्णं, शोणितं मम कर्त्तिका । १३६ । कुमारेणापि निस्त्रिंशः, कोशादाकृष्य लीलया । कृतः करे करैर्भानो - दुर्दर्शश्चर्मचक्षुषाम् ॥१३७॥
"
१ व्यजनं - BPJ ॥ २ BJP | कारितोऽतर्कितो येन- मु. ॥
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org