________________
अधिकार २ / श्लोक ५०-५९ / धूपपूजायां नरकेसरिकथा ३
प्रणम्य कामदेवाय, शेषामादाय शीर्षतः । परिभ्रमितुमारब्धा, उद्याने कामसुन्दरे ॥८४॥ नवयौवनमारूढा, सखेदा शून्यमानसा । दृष्टका कन्यका कान्ता, सहकारतरोरधः ॥ ८५ ॥ एकाकिनी सशोका च, सर्वावयवसुन्दरी । तनूदरी विशालाक्षी, लावण्यामृतदीर्घिका ॥८६॥ बकुलामोदिनि:श्वासा, पक्वबिम्बसमाधरा । मुक्तपद्मालया देवी, पद्मा वनमुपागता ॥ ८७॥ भूरिसम्भ्रमसञ्जात-नि:श्वासोत्कम्पितस्तनी । लावण्येनैव लिम्पन्ती, समस्तां काननावनम् ॥८८॥ पुष्पोपहारं कुर्वाणा, दृष्टिक्षेपैर्मुहुर्मुहुः । निःश्वासाकृष्टमत्तालि - कुलव्याकुलितानना ॥८९॥ सौकुमार्यादिवोदारा-च्छ्लाघ्यतां यान्ती निर्भरम् । यौवनेन कृताश्लेषा, सीमा निःशेषयोषिताम् ॥ ९० ॥ गृहीत्वेवाखिलस्त्रीणां, लावण्यं जगदद्भुतम् । कृतैषा वेधसा कर्तुमद्भुतं सार्वलौकिकम् ॥९१॥ इतश्चोन्मूलितालान-स्तम्भो मदजलाविल: । पट्टहस्ती नरेन्द्रस्य, क्रोधान्धीकृतलोचनः ॥ ९२ ॥ त्रोटयित्वा च वस्त्रादि, विधूयाधोरणं तथा । पातयित्वा महीपीठे, मारयित्वातिरोषतः ॥ ९३ ॥ मत्तो गुलगुलाराव - पूरिताखिलदिङ्मुखः । भञ्जन्नापणवेश्मानि समुद्धृतकरः करी ॥ ९४|| विलोक्य जनसञ्चारं, श्रुत्वा तूर्यस्य निःस्वनम् । कामसुन्दरमुद्यान - मनु वव्राज वेगतः ॥ ९५ ॥ तुरङ्गमगतैः पुम्भि:-र्धावद्भिश्च पुरः स्थितैः । हस्त्यागच्छति भो लोका!, यात यात दिशोदिशम् ॥ ९६ ॥ एतच्छ्रुत्वा जन: सर्व:, प्राणानादाय सत्वरम् । कोऽपि क्वापि गतो यस्माज्जीवानां जीवितं प्रियम् । ९७| सापि बाला भयोद्भ्रान्ता, प्रविष्टा वंशगहरे । वेपमानसमस्ताङ्गी, लतेव पवनाहता ॥९८॥ मेघनादो गतः क्वापि, नष्टो मलयसुन्दरः । एकाकी पर्यटन् प्राप्तः, कुमारो नरकेसरी ॥ ९९ ॥ यत्र सा भयसंत्रस्ता, हरिणीलोललोचना । वंशगह्नरमध्यस्था, संलीनास्ते कुमारिका ॥ १०० ॥ विलोकिता कुमारेण, कुमारोऽपि तया दृशा । दृष्टः सानन्दया जात- स्तयोर्दृष्टिसमागमः ॥१०१॥ तद्वचनात्कुमारोऽपि प्रविष्टो वंशगहरे । ससम्भ्रमा सशृङ्गारा, सम्प्रवृत्ता मिथः कथा || १०२ || क्षणांतरेण विश्वस्ता, धृताभिमुखलोचना । आविष्कृतानुरागा च, पृष्टा सा तेन भामिनी ॥ १०३ ॥ त्वं कस्यासि सुता बाले!, सशोका केन हेतुना ? |
एकाकिनी कथं जाता ?, यूथभ्रष्टा यथा मृगी ॥ १०४ ॥
किंवा भजन्ति ते नाम ?, वर्णाः पूर्णमनोरथे ! । अदृष्टेऽपि सतां प्रीति- जयते सज्जने जने ॥ १०५ ॥ तस्मै सा कथयामास, साश्रुगद्गदया गिरा । दधत्यात्यंतमाधुर्यं चेतश्चोरणलक्षया ॥ १०६ ॥ उदन्वता परिक्षिप्तः सारश्रीखण्डमण्डितः । मरिचोद्धान्तहारीतो, मलयोऽस्ति महीधरः ॥ १०७ ॥ मलयसारं पुरं तत्र देशे सुरपुरप्रभम् । मलयकेतुभूपाल - स्तत्पालयति हेलया ॥ १०८ ॥ लीलयैव धराभार-धरणोद्धुरकन्धरः । सर्वावरोधनारीणां मुख्या लक्ष्मीरिवोत्तमा ॥ १०९॥ सर्वाङ्गसुन्दराकारा, नाम्ना मलयसुन्दरी । प्रतिबिम्बमिव स्त्रीणां वेधसा सा विनिर्मिता ॥११०॥ तदङ्गतः समुत्पन्ना, नाम्नाहं जयसुन्दरी । तत्रैव समये सिद्धाः पितुर्व्युत्थितपार्थिवाः ॥ १११ ॥
9
Jain Education International
For Private & Personal Use Only
६७
www.jainelibrary.org