________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
मलयसुन्दराभिख्यो, वयस्योऽस्य सतां वरः । हृदयमिव कुमारस्य, द्वितीयं वेधसा कृतम्॥५६॥ हेमपुरादथायातो, मेघनादो नृपाङ्गज: । धृतो दिनानि तत्रैव, कियन्ति नरकान्तया ॥५७॥ प्रणभ्य भणिता तेन, नरकान्ता कृतादरम् । मातर्मातुलसंदिष्टं, कथयामि तवाग्रतः ॥५८॥ मातुलेन समादिष्टं, कुमारेण ममान्तिके। दिनानि कतिचिन्नून-मागन्तव्यं यथा तथा ॥५९॥ अदर्शने दृढं प्रेम, नश्यत्येव शरीरिणाम् । कालेन गच्छता वत्स ! यथा हस्तपुटाज्जलम् ॥६०॥ भणितो मातापितृभ्यां, भवन्तं मातुलो दृढम् । समाह्वयति तद्वत्स, विलम्बं गच्छ मा कुरु ॥६१॥ मलयसुन्दरमित्रेण, मेघनादेन संयुत: । प्रधानं रथमारुह्य, चलितो हेमपुरोन्मुखः ॥६२।। कतिभिरेव दिनैस्तत्र, सम्प्राप्तो हेमपत्तने । हेमसुन्दरभूपेन, सानंदमवलोकित: ॥६३॥ तत्रैव तिष्ठतस्तस्य, बहुमानपुरस्सरम् । नानाविधविनोदेन, क्रीडतो यान्ति वासरा: ॥६४॥ अन्यदा च महीपीठे, मधुर्मन्मथबान्धवः । जनितानेकबिब्बोको, जजृम्भे जगतीतले ॥६५।। मधुचन्द्रसख: काम:, कदर्थितजगत्त्रयः । तेजो बहुतरं प्राप, हविषेव हुताशन: ॥६६॥ । केवलोऽपि बली कामो, दुर्जय: सर्वदेहिनाम् । किं पुनर्जनितोन्मादो, मधुचन्द्रकृतसन्निधिः ॥६७॥ चलद्भिः पल्लवैर्यत्र, मलयानिलकम्पितैः । मधुराजागमे तुष्टा, नृत्यंतीव महीरुहाः ॥६८॥ गन्धलुब्धालिशब्देन, वृक्षकक्षेषु सर्पता । सङ्गीतमिव कुर्वन्ति, तरवो मुदितमानसा: ॥६९॥ कोकिलानां निनादेन, स्त्रीमानग्रन्थिभेदिना। सितकुसुमैर्हसन्तीव, वसन्ते वनराजयः ॥७०|| पुष्पकालेऽपि वक्रत्वं, श्यामत्वं यत्र का भवेत् । फलाशा किंशुकस्तेन, मुक्त: पत्रैरनागतम् ॥७१॥ 'फलितान्पुष्पितान्दष्टवा, सर्वतोऽपिवनस्पतीन्। सञ्जाताइति कालास्या, दुर्जनाइव किंशुकाः ।७२। किंशुकं पुष्पितं दृष्ट्वा, देशान्तरगतैरपि । स्मर्यन्ते वल्लभाश्चित्ते, नवरङ्गविराजिता: ॥७३॥ निर्झराम्भसि मनाभि:, शाखाभिर्यत्र शाखिन: । जलाञ्जलिं प्रयच्छन्ति, पथिकानां गतायुषाम् ।।७४।। किंशुकैर्नवरङ्गाभै-र्बद्धमदन-फला सती । वसन्तलक्ष्मीयंत्र, रेजे नववधूरिव ।।७५। कोमलैगीतवादित्रै-मज्जनैश्च मनोहरैः । स्वच्छचन्दनवस्त्रैश्च, शृङ्गारैर्वरयोषिताम् ॥७६॥ कलकोकिलनादेन, दोलान्दोलेन लीलया। जलयन्त्रैर्विचित्रैश्च, देवालयमहोत्सवै: ।।७७।। पाडलागन्धमाघ्राय, श्रुत्वा कोकिलकूजितम् । कान्तैकशरणो यत्र, क्रियते कामिनीजन: ॥७॥ रम्यहर्म्यतलस्थेन, कुमारेण विलोकितः । विनिर्यन् राजमार्गेण, सुनेपथ्योऽबलाजनः ॥७९॥ मेघनाद: कुमारेण, पृष्टः कोऽयं महोत्सवः । येनैष पिण्डितो याति, स्त्रीजनो मम कथ्यताम् ।।८०॥ तेनाभाणि कुमाराद्य, कामदेवमहोत्सवः । वर्तते सर्वलोकानां, मन: क्षोभविधायकः ॥८१॥ तत्रायं स्त्रीजन: सर्वो, वस्त्राभरणभूषितः । गृहीतपुष्पधूपादिः, कामाराधनहेतवे ।।८२।। चलितो गम्यते तत्र, यदि तेऽस्ति कुतूहलम् । प्रतिपन्नं कुमारेण, गतास्तत्र त्रयोऽपि ते ।।८।। १J । पतितान् पुष्पितान्- BCI पुष्पितान् फलितान्-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org