________________
अधिकार २ / श्लोक ५०-५९ / गन्धपूजायां रत्नसुन्दरकथा २
६५
दौर्भाग्यं पृष्ठतो लग्नं, समायातं पुराकृतम् । अहो पृष्ठिं न मुञ्चन्ति, कृतकर्माणि देहिनाम् ।।२८।। दृष्टा दहति नेत्राणि, स्पृष्टा करतलद्वयम् । भुक्ता दहति सर्वाङ्ग, सुखदा दूरत: स्थिता ॥२९॥ दुर्गृहावासदुःखेन, दग्घदेहस्य सर्वदा। वणिजो रत्नचन्द्रस्य, वव्रजुभूरिवासरा: ॥३०॥ गृहाणि कुकलत्रेण, दृष्पुत्रेण कुलानि च । धनं कुव्यवहारेण, नूनं नश्यन्ति देहिनाम् ॥३१॥ क्षणवञ्चनया वर्ष, दिर्न भुक्ते कुभोजने। कुभार्यया हतं जन्म, हतो राजा कुमन्त्रिभिः ॥३२॥ फलपुष्पकृते गेहा-निर्गतो नष्टमानस: । दृष्टाश्च पुरलोकानां, कुर्वन्तो धर्मदेशनाम् ॥३३॥ परोपकरणे निष्ठाः, करुणामृतसागरा: । गुणरत्नधरा धीरा, दमसारमुनीश्वराः ।।३४|| यथा जीवा: प्रबुध्यन्ते, विमुच्यन्तेच कर्मभिः। सङ्क्लिष्यन्ते यथा चैते, नरकं याति यथा तथा॥३५॥ रत्नचन्द्रोऽपि वन्दित्वा, निषण्ण शुद्धभूतले । धर्मं श्रोतुं समारब्धो, दु:खदुःखितमानस: ॥३६॥ यथा जिनाग्रतो धूपं, कर्पूरागुरुमिश्रितम् । भावतो यो दहत्युच्च-स्तस्य श्री:सर्वतोमुखी ॥३७॥ इत्यादिकथिते धर्मे, सूरिणातिप्रबन्धतः । तेनावसरमासाद्य, सूरि नत्वा च भावत: ॥३८॥ प्रपन्नो रत्नचन्द्रेण, सर्वज्ञो हृदि देवता । सर्वज्ञभणितो धर्मो, गुरवस्तु सुसाधव: ।।३९।। रात्रिभोजनविरतिश्च, मधुमद्यनिवर्तनम् । नवनीतस्य मांसस्य, मैथुनस्य विवर्जनम् ।।४०।। दमसारगुरुं नत्वा, रत्नचन्द्रो निजे गृहे । गत: करोति यत्नेन, प्रपन्नगुणपालनम् ॥४१॥ ब्रह्मचर्यव्रतं श्रुत्वा, चुकोपास्मै वसुन्धरा । निभालयति छिद्राणि, पापा मारणहेतवे ॥४२॥ अन्यदा मिलिता क्षुद्रा, वत्साऽऽख्या परिव्राजिका। सन्मान्य सा ततोऽयाचि, तया चूर्णं क्षयङ्करम्॥ वत्सयापि च तद्दत्त-मुपचारगृहीतया । ततो वत्सा महापापा, साशङ्का स्वमठे गता ॥४४॥ वसुन्धरापि तन्मिश्य, भोजनेन दिने दिने । ददाति रत्नचन्द्रस्य, चूर्णं मारणहेतवे ॥४५॥ कालेन गच्छता जात:, क्षीणाङ्गश्चूर्णदोषत: । न शक्नोति समुत्थातुं, तत एवमचिन्तयत् ॥४६॥ को गुणोऽनेन देहेन, निर्गुणेनादृतेन मे। चतुर्भेदस्य संहार-माहारस्य करोम्यहम् ॥४७|| विचिन्त्यैवं ततो धर्मे, धनं दत्त्वा यथोचितम् । पूजयित्वा जिनाधीशं, सुगन्धकुसुमादिभिः ॥४८॥ कर्पूरागरुसन्मिश्रं, धूपं दग्ध्वा तदग्रतः । रोमाञ्चाञ्चितसर्वाङ्गो, बद्ध्वायुष्कं सुरेष्वयम् ॥४९॥ विधायानशनं मृत्वा, देवभूयं गतिं गतः । सौधर्मे देवसौख्यानि, भुक्त्वा चायुः क्षये च्युतः ॥५०॥ बङ्गाजनपदे रम्ये रङ्गशालामहापुरे । राजलक्षणसम्पन्नो, राजा च रणकेसरी ॥५१॥ नरकान्ता प्रिया तस्य, सर्वदापि मन:प्रिया । रणकेसरिभूपस्य, सर्वकार्येषु संमता ॥५२॥ तस्या: कुक्षौ समुत्पन्न:, शुभस्वप्नेन सूचित: । समये प्रतिष्ठितं नाम, पुत्रस्य नरकेसरी ॥५३॥ समये च प्रयत्नेन, ग्राहित: सकला: कला: । यौवने च सामारूढो, व्यूढोरस्को महाभुजः ॥५४॥ प्रजाऽवनकृते धात्रा, निर्मित: सारपुद्गलैः । क्षात्रो धर्म इवाभाति, मन्येऽसौ कृतविग्रहः ॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org